वाचस्पत्यम्
व्रह्मपुर is an alternate of ब्रह्मपुर. ब्र(व्र)ह्मपुर || न० ६ त० । १ ब्रह्मण उपासनार्थे हृदयस्थाने “अथ यदिदं ब्रह्मपुरे दहरं पुण्डरीकम्” छा० उ० । दहरशब्दे ३५१० पृ० दृश्यम् । “यः सर्वज्ञः सर्वविद्- यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठ्तः” मुण्डकोप० । “ब्रह्मणोऽत्र चैतन्यस्वरूपेण नित्याभिव्यक्तत्वाद्ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्” भा । २ विधातृनगर्य्यां ३ काश्याञ्च वा स्त्री ङीप् तत्रार्थे । वृ० स० १४ अ० उक्ते ईशानदिक्स्थे ४ देशभेदे पु० (वरमा) देशे स्वार्थे क । तत्रार्थे मार्कपु० पूर्वोत्तरकूर्मभागस्थदेशोक्तौ ।