संस्कृत-शब्दकोशः

व्रह्मपुर व्रह्मपुरुष

व्रह्मपुराण

वाचस्पत्यम्

व्रह्मपुराण is an alternate of ब्रह्मपुराण. ब्र(व्र)ह्मपुराण ||‍ न० वेदव्यासप्रणीते महापुराणभेदे तत्प्रति- पाद्यविषयाश्च वृहन्नारदीये ४ पा० ९२ अ० उक्ता यथा “ब्राह्मं पुराणं तत्रादौ सर्वलोकहिताय वै । व्यासेन वेदविदुषा समाख्यातं महात्मना । तद्वै सर्वपुराणाग्र्यं धर्मकामार्थमोक्षदम् । नानाख्यानेतिहासाढ्यं दशसाहस्र- मुच्यते” तत्पूर्वभागे “देवानामसुराणाञ्च यत्रोत्पत्तिः प्रकीर्त्तिता । प्रजापतीनाञ्च तथा दक्षादीनां सुनीश्वर! । ततो लोकेश्वरस्यात्र सूर्य्यस्य परमात्मनः । वंशानुकी- र्त्तनं पुण्यं महापातकनाशनम् । तत्रावतारः कथितः परमानन्दरूपिणः । श्रीमतो रामचन्द्रस्य चतुर्ध्यूहाव- तारिणः । ततश्च सोमवंशस्य कीर्त्तनं यत्र वर्णितम् । कृष्णस्य जगदीशस्य चरितं कल्मषापहम् । द्वीपानाञ्चैव सिन्धूनां वर्षाणां चाप्यशेषतः । वर्णं यत्र पाताल स्वर्गाणाञ्च प्रदृश्यते । नरकाणां समाख्यानं सूर्य्यस्तुति कथानकम् । पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते । दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् । पूर्वभागो- ऽयसुदितः पुराणस्यास्य मानद!” । तदित्त्रभागे । “अस्यो- त्तरे विभागे तु पुरुषोत्तमवर्णनम् । विस्तरेण समा- ख्यातं तीर्थयात्राविधानतः । अत्रैव कृष्णचरितं विस्तरात् समुदीरितम् । वर्णनं मम लोकस्य पितृश्राद्ध- विधिस्तथा । वर्णाश्रमाणां धर्माश्च कीर्त्तिता यत्र वि- स्तरात् । विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम् । योगानाञ्च समाख्यानं साङ्ख्यानां चापि वर्णनम् । ब्रह्म वादसमुद्देशः पुराणस्य च शंसनम् । एतद्ब्रह्मपुरा- णन्तु भागद्वयसमाचितम् । वर्णितं सर्वपापन्धं सर्वसौख्य- प्रदायकम्” तत्फलश्रुतिः । “सूतसौनकसंवादं भुक्तिमुक्ति- प्रदायकम् । लिखित्वैतत् पुराणं यो वैशाख्यां हेमसं- युतम् । जलधेनुयुतञ्चापि भक्त्या दद्याद्द्विजातये । पौराणिकाय सम्पुज्य वस्त्रभोज्यविभूषणैः । स वसेद् ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् । यः पटेच्छृणुया- द्वापि ब्रह्मानुक्रमणीं द्विज! । सोऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फल लभेत् । शृणोति यः पुराणन्तु ब्राह्मं सर्वं जितेन्द्रियः । हविष्याशी च नियमात् स लभेद् ब्रह्मणः पदम् । किमत्र बहुनोक्तेन यद्यदिच्छति- मानवः । तत् सर्वं लभते वत्स! पुराणस्यास्य कीर्त्तनात्”



Correction: