वाचस्पत्यम्
व्रह्ममीमांसा is an alternate of ब्रह्ममीमांसा. ब्र(व्र)ह्ममीमांसा || स्त्री ६ त० ब्रह्मज्ञानार्थं वेदान्तवाक्य- विचारात्मके व्यासप्रणीते ग्रन्धभेदे तत्प्रतिपाद्यविषयादि वैयासिकन्थायमालायामुक्तं यथा “शास्त्रं ब्रह्मविचा- राख्यमध्यायाः स्युश्चतुर्विधाः । समनयाविरोधौ २ द्वौ साधन ३ ञ्च फलं ४ तथा । समन्वये स्पष्टलिङ्ग १ मस्पष्टत्वे २ऽ- प्युपास्यगम् ३ । ज्ञेयगं ४ पदमात्रञ्च चिन्त्यं पादेष्वनुक्र- मात् । द्वितीये स्मृतितर्काभ्यामविरोधो १ ऽ न्यष्टता २ । भूत- भोक्तृश्रुते ३ र्लिङ्गश्रुते ४ रप्यविरुद्धता । तृतीये विरति १ स्तत्त्व- म्पदार्थपरिशोधनम् २ । गुणोपसंहृति ३ र्ज्ञाने वहिरङ्गादि- साधनम् ४ । चतुर्थे जीवतोमुक्ति १ रुत्क्रान्ति २ र्गतिरुत्तरा ३ । ब्रह्मप्राम्प्तिब्रह्मलोकाविति ४ पादार्थसंग्रहः । तेन तत्र प्रत्येकं चतुष्टयपादयुताः चत्वारोऽध्यायाः । तच्च शास्त्रं बहुभिः स्वस्वमतानुसारेण व्याख्यातम् तत्र गौडपादा- चार्य्यशङ्कराचार्य्यादिभिर्द्वैतपरतया व्याख्यातं रामा- नुजादिभिश्च विशिष्टाद्वैतपरतया, वल्लबाचार्य्यादिभिश्च विशुद्वाद्वैतपरतया माध्वाचार्य्यादिश्च द्वैतपरतया व्या- ख्यातं तत्तन्मतञ्च प्रायेण तत्तच्छन्दे दृश्यम् ।