वाचस्पत्यम्
व्रह्मयज्ञ is an alternate of ब्रह्मयज्ञ. ब्र(व्र)ह्मयज्ञ || पु० ब्रह्मनिमित्तकस्तदध्ययनतदध्यापनानिमित्तको यज्ञः । वेदाध्ययनाध्यापनादौ अमरः । “अध्यापनं ब्रह्मयज्ञः” मनुः । “स्वाध्यायोब्रह्मयज्ञः” विष्णु सू० । तेन वेदाध्ययनाध्यापनयोब्रह्मयज्ञता ।