वाचस्पत्यम्
व्रह्मलोक is an alternate of ब्रह्मलोक. ब्र(व्र)ह्मलोक || पु० ६ त० । १ ब्रह्माधिष्ठाने भुवने सत्य- लोके “सत्यस्त सप्तमो लोको ह्यपुनर्भवासिनाम् । ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः” देवीपु० । “षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मा- रका यत्र ब्रह्मलोको हि स स्मृतः” । ब्रह्मेव लोकः । २ तुरीयब्रह्मस्वरूपे च ब्रह्मानन्दशब्दे दृश्यम् ।