संस्कृत-शब्दकोशः

व्रह्मलोक व्रह्मवर्चस्विन्

व्रह्मवर्चस

वाचस्पत्यम्

व्रह्मवर्चस is an alternate of ब्रह्मवर्चस. ब्र(व्र)ह्मवर्चस ||‍ न० ब्रह्मणा वेदाध्ययनेन वर्चः अच् समा० । वेदाध्ययनजनिते तेजसि “तपःस्वाध्यायजं यच्च तेजस्तु ब्रह्मचर्वसम्” जटा० । “ब्रह्मवर्चसकामः स्तुवीत” ताण्ड्य० व्रा० २ । ५ । २ “ब्रह्मवर्चसकामस्य कुर्य्यात् विप्रस्य पञ्चमे” मनुः तदस्यास्ति इनि । ब्रह्मवर्चसिन् तदयुते त्रि० “ब्रह्मबर्चस्य- न्नादो भवति” छा० उ० । “वृत्तस्वाध्यायजं तेजः ब्रह्म- वर्चसम्” शाङ्गरभाष्यम् ।



Correction: