वाचस्पत्यम्
व्रह्मसुवर्चला is an alternate of ब्रह्मसुवर्चला. ब्र(व्र)ह्मसुवर्चला || स्त्री ओषधिभेदे तत्स्थानलक्षणादिकमुक्तं सुश्रुते “देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे । दृश्यते च जलान्तेषु मध्ये ब्रह्मसुवर्चला” । “कनकाभा जलान्तेषु सर्वतः परिसर्पति । सक्षीरा पद्मिनीप्रख्या देवी ब्रह्म सुवर्चला” । तत्क्वथिते २ जले च “पिबेत् ब्रह्मसुव- र्चलाम्” मनुः ।