वाचस्पत्यम्
व्रह्मसू is an alternate of ब्रह्मसू. ब्र(व्र)ह्मसू || पु० ब्रह्माणं सूतवान् सू—क्विप् । चतुर्व्यूहात्म- कस्य विष्णोर्मूर्त्तिभेदे अनिरुद्धे तस्यावतारभेदे २ उषापतौ च अमरः । “अनिरुद्धात्ततो ब्रह्मा तन्नाभिकमलोद्भवः” ब्रह्मपु० । ब्रह्मणि तपसि सुवति प्रेरयति सू—प्रेरणे क्विप् । तपःप्रवर्त्तके ३ कामे च कामेनैव सर्वतपस्मु प्रेरणात्तस्य तथात्वम् । तदभिमानिदेवे ४ कन्दर्पे च अमरः ।