वाचस्पत्यम्
व्रह्माञ्जलि is an alternate of ब्रह्माञ्जलि. ब्र(व्र)ह्माञ्जलि || पु० ब्र(व्र)ह्मण वेदपाठाय अञ्जलिः गुरौ कृतोविनयाञ्जलिः, स्वरविशेषज्ञापनार्थं वा कृतीञ्जलिः सं- कुचितपाणिः । वेदपाठार्थं गुरुनिकटे कार्य्ये १ विनयाञ्जलौ स्वरविशेषार्थज्ञापनाय कृतसङ्कोचे २ पाणिद्वये च अमरः ।