वाचस्पत्यम्
व्रह्माणी is an alternate of ब्रह्माणी. ब्र(व्र)ह्माणी || पु० ब्र(व्र)ह्माणम् आनयति जीवयति अन- णिच्—अण् पूर्व० णत्वम् । ब्रह्मशक्तौ “हंसयुक्ते विमा- नस्था साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिः ब्रह्माणी साऽभिधीयते” इति देवीमा० । “ब्रह्माणी ब्रह्म- जननाद्” देवीपु० । ब्रह्मशब्दात् ङीष् आनङ् चेति त्वपाणिनीयम् । २ रेणुकानामगन्धद्रव्ये रत्नमा० । २ राजरीतौ राजनि० । ३ ब्रह्मणोऽर्द्धशरीरादुत्पन्नायां शतरूपायाम् । “ततः संजपतस्तस्य भित्त्वा देहमकल्म- षम् । स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्री ब्रह्माणीत्युच्यते च सा” मत्स्यपु० ३ अ० ।