संस्कृत-शब्दकोशः

व्रह्माण्ड व्रह्मादनी

व्रह्मात्मभू

वाचस्पत्यम्

व्रह्मात्मभू is an alternate of ब्रह्मात्मभू. ब्र(व्र)ह्मात्मभू ||‍ पु० ब्रह्मण आत्मनः देहात् भवति भू—क्विप् । अश्वे शब्दमाला तस्य ब्रह्मदेहजातत्वं वृ० उ० उक्तं यथा “प्राणा वै यशोवीर्य्यं तत् प्राणेषूक्तान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् । सोऽ- कामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्या- श्वमेधत्वम्” मू० । “तदेवं यशोवीर्य्यभूतेषु प्राणेषूत्- क्रान्तेषु शरीरान्निष्क्रान्तेषु तच्छरीरम्प्रजाषतेः श्वयि- तुमुच्छूनभावङ्गन्तुमध्रियतामेध्यञ्चाभवत् । तस्य प्रजा- पतेः शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आ- सीत् । यथा कस्यचित् प्रिये विषये दूरङ्गतस्यापि मनो भवति तद्वत् । स तस्मिन्नेव शरीरे गतमनाः सन् किमकरोदिति । उच्यते सोऽकामयत कथं मेध्यं भेधार्हं यज्ञियं मे ममेदं शरीरं स्यात् । किञ्चात्मन्वी आ- त्मवांश्चानेन शरीरेण शरीरवान् स्यामिति प्रविवेश । यस्मात्तच्छरीरं मद्वियोगात् गतयशोवीर्य्यमश्व- दश्वयत् ततस्मस्मादश्वः समभवत् । ततोऽश्वनामा प्रजा- पतिरेव साक्षादत्र स्तूयते । यस्माच्च पुनस्तत् प्रवेशाद्गत- यशोवीर्य्यत्वादमेध्यं सन्मेध्यमभूत्तदेव तस्मादेवाश्वमेध- स्याश्वमेधनाम्नः क्रतोरश्वमेधत्वमश्वमेधनामलाभः” शा० भा०



Correction: