संस्कृत-शब्दकोशः

व्रह्माणी व्रह्मात्मभू

व्रह्माण्ड

वाचस्पत्यम्

व्रह्माण्ड is an alternate of ब्रह्माण्ड. ब्र(व्र)ह्माण्ड ||‍ न० ६ त० । “तदण्डमभवद्धैमं सहस्रांशुसम- प्रमम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः” इति मनूक्ते ब्रह्मण उत्पादके अण्डाकारे १ भुवनकोषे “ब्रह्माण्डभाण्डीदरभ्राम्यत्पिण्डितचण्डिमेति” वीरचरि- तम् । ब्रह्माण्डसंस्था सू० सि० दर्शिता यथा “वासुदेवः परं ब्रह्म तन्मूर्त्तिः पुरुषः परः । अव्यक्तो निर्गुणः शान्तः पञ्चविंशात् परोऽव्ययः । प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः । सङ्कर्षणोऽपः सृष्ट्वादौ तास वीजमवासृजत् । तदण्डमभवद्धैमं सर्वत्र तमसा- वृतम् । तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः । हिरण्यगर्भो भगवानेष छन्दसि पठ्यते । आदित्यो ह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते । परं ज्योतिस्तमः- पारे सूर्योऽयं सवितेति च । पर्येति भुवनान्येष भाव- यन् भूतभावनः” इत्युपक्रमे “गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् । विभागं कल्पयामास यथास्वं वेददर्श- नात् । ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः । देवा- सुरमनुष्याणां सिद्धानां च यथाक्रमम् । ब्रह्माण्डमेतत् सु- षिरं तत्रेदं भूर्भुवादिकम् । कटाहद्वितयस्यैव सम्पुटं गोलकाकृति (१) । ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाऽभिधी- यते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तपा । मन्दामरेज्यभ्रपुत्रसूर्यशुक्रेन्दुजेन्दवः । परिभ्रमन्त्यधो- ऽधस्था । सिद्धविद्याधरा घनाः । उपरिष्टात् स्थितास्तस्य सेन्द्रा देवा महर्षयः । अधस्तादसुरास्तद्वत्द्विषन्तोऽन्यो- न्यमाश्रिताः । ततः समन्तात् परिधिः क्रमेणायं महा- णवः । मेखलेव स्थितो धात्र्या देवासुरविभागकृत् । समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः । द्वीपेषु दिक्षु पूर्वादिनगर्य्यो देवनिर्मिताः । भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकार- तोरणा । याम्यायां भारते वर्षे लङ्का तद्वतन्महापुरी । पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्त्तिता । उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्त्तिता । तस्यां सिद्धा म- हात्मानो निवसन्ति गतव्यथाः” सू० सि० । (१) “एतत् प्रागुक्तं ब्रह्मणाघिष्ठितं सुवर्णाण्डं सुषिरमवका- शात्मकं तत्रावकाशे इदं जगत् भूर्भुवादिकं भूर्भुवःस्व- र्गात्मकमवस्थितं न बहिः । नन्वण्डस्य गोलाकारत्वेना- न्तरवकाशात्मकत्वमसम्भवर्तात्यत आह कटाहद्वितय- स्येति । कटाहोऽर्द्धगोलाकारं सावकाशं पात्रं तस्य द्वितयं द्वयं समं तस्य । एवकारो न्यूनाधिकव्यवच्छेद- कार्थः । सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्मोला- कारः स्यात् । तथाच न क्षतिः” रङ्गना० । “भूभूधरत्रिदशदानवमानवाद्या येऽयाश्च धिष्ण्यगगने- चरचक्रकक्षाः । लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्र- ह्माण्डभाण्डजठरे तदिदं समस्तम्” सि० शि० । इदानी- मन्योदितं ब्रह्माण्डमानं पूर्वं कथितमपि प्रसङ्गादनुव- दति स्म” प्रमिता० । “कोटिघ्नैर्नखनन्दषट्कनखभूभूमृद्भु- जङ्गेन्दुभि १८७१२०६९२०००००००० र्ज्योतिः शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसंपु- टतटे केचिज्जगुर्वेष्ठनं केचित् प्रोचुरदृश्यदृश्यकगिरिं पौरा- णिकाः सूरयः । करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम् दिनकरकरनिकरनिहततमसो नभसः स परिधिरुदितस्तैः । ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि । यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदम् मतं नः” । प्रमाणशून्यत्वात् प्रयो- जनाभावाच्चास्माभिर्ब्रह्माण्डमानं न कथितमित्यर्थः” प्रमि० । दानार्थकल्पिते महादानान्तर्गते ब्रह्माण्डात्मकस्वर्णादि- घटिते २ पदार्थे तत्स्वरूपादि हेमा० दा० ख० मत्स्यपु० उक्तं यथा “अथातः संप्रबक्ष्यामि ब्रह्माण्डं विधिपूर्वकम् । यच्छ्रेष्टं सर्वभूतानां महापातकनाशनम् । पुण्यं दिनमथासाद्य तुलापुरुषदानवत् । ऋत्विग्मण्ड- पसम्भारभूषणाच्छादनादिकम् । लोकेशावाहनं तद्वदधि- वासनकं तथा” तुलापुरुदानवदिति, कालदेशवृद्धि- श्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरणमधुपर्कदा- नकुण्डमण्डपवेदिकासम्भारलोकेशावहनाधिवासनादि सर्व मत्स्यपुराणोक्ततुलापुरुषदानविहितं वेदितव्यमित्यर्थः । “कुर्य्याद्विंशत्पलादूर्द्ध्वनासहस्राच्च शक्तितः । शकल- द्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः” । शकलद्वयं, खण्डद्व- यम् । तल्लक्षणन्तु ब्रह्माण्डपुराणे “कुम्भच्छाया भवेद्- यादृक् प्रतीच्यां दिशि चन्द्रमाः । उदितः शुक्लपक्षादौ वपुरण्डस्य तादृशमिति” कुम्भच्छाया इति, कुम्भच्छाया ग्रीवाहीनकुम्भादिजेत्यवधेयम् । “दिग्गजाष्टकसंयुक्तं ष- ड्वेदाङ्गसमन्वितम् । लोकपालाष्टकोपेतं मध्यस्थितचतु- र्मुखम् । शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम् । वस्वादित्यमरुद्गर्भं महारत्नसमन्यितम्” । अथैतेषां दिग्- गजप्रभृतीनां क्रमेण लक्षणाण्युच्यन्ते आदित्यपुराणे “शुभ्राभश्च चतुर्दंष्ट्रः श्रीमानैरावती गजः । पुष्पदन्तो वृहत्सास्नः षड्दन्तः पुष्पदन्तवान् । सामान्यपजरूपेण शेषा दिक्वरिणः स्मृताः” । तन्नामानि शास्त्रान्तरे “ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः” । वेदाङ्गानि स्कन्द- पुराणे “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषा- ञ्चिति । छन्दश्चेति षडेतानि वेदाङ्गानि प्रचक्षते । मूर्त्तानि ब्रह्मणो लोके साक्षसूत्राणि तानि तु । द्विजालिभिः शुभास्यानि वामे दधति कुण्डिकाम्” । तानि च पश्चिमदिशि वेदसन्निधौ निवेशनीयानि दिग्वि- शेषानाम्नानात् प्रधानं नीयमानं हि तत्राङ्गान्यपकर्ष- तीतिन्यायात्, वक्ष्यते च, “पश्चिमे चतुरोवेदानिति” । लोकपालरूपाण्याह विश्वकर्मा “चतुर्दन्तो गजारूढो वज्रपाणिः पुरन्द्ररुः । प्राचीपतिः प्रकर्त्तव्यो नाना- भरणभूषितः । पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरो- ऽरुणः । छागस्थः साक्षसूत्रश्च सप्तार्चिः शक्तिधारकः । ईषत्पीनो यमः कार्य्यो दण्डहस्तो विजानता । रक्त- दृक् पाशधृक् क्रुद्धो निरृतिर्विकृताननः । पुंस्थिता घड्गहस्तश्च भूतवान् राक्षसावृतः । वरुणः पाशभृत् सौम्यः प्रतीच्यां मकराश्रयः । धावद्धरिणपृष्टस्थो ध्वजधारी समीरणः । दशाश्वरथगः सोमो गदापा- णिर्वरप्रदः” । “शशकवाहनः” इत्यागमान्तरम् । “पूर्वोत्तरे त्रिनेत्रश्च वृषभस्थस्त्रिशूलभृत् । कपालपाणिश्चन्द्रार्द्ध- भूषणः परमेश्वरः” । चतुर्मुखरूपन्तु विष्णुधर्मोत्तरात् “पद्मपत्रासनस्थश्च ब्रह्मा कार्य्यश्चतुर्मुखः । अक्षमाला- स्रजं बिभ्रत् पुस्तकञ्च कमण्डलुम् । वासः कृष्णाजिनं तस्य पार्श्वे हंसस्तथैव च” । शिवलक्षणमुक्तं वायुपुराणे “पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनः । कपाल- शूलखट्वाङ्गी चन्द्रमौलिः सदाशिवः” । विष्णुलक्षण- मुक्तं तुलापुरुषदाने । सूर्य्यलक्षणमुक्तं विष्णुधर्मोत्तरे “रविः कार्य्यः शुभश्मश्रुः सिन्दूरारुणसुप्रभः । पद्मा- सनः पद्मकरो भूषितो रशनाधरः” । उमालक्ष्मीसमन्वित- मित्यत्र, शिवाच्युतयोः सन्निहिते उमालक्ष्म्यौ विधेयौ । उमालक्षणमुक्तं देवीपुराणे “गौरीं शङ्खेन्दुवर्णाभां सर्व- रीशनिषेविताम् । वृत्तपद्मासनासीनां साक्षमूत्रकमण्ड- लुम् । वरदोद्यतरूपाद्यां सर्वमाल्यफलप्रियाम्” । वर- दोद्यतरूपाद्यां, वरदाभयपाणिकामित्यर्थः । लक्ष्मी- लक्षणमुक्तं पञ्चरात्रे “पद्मासनस्थां कुर्वीत श्रियं त्रै- लोक्यमातरम् । गौरवर्णां सुरूपाञ्च सर्वालङ्कारभूषि- ताम् । रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन तु” । वस्वा- दित्यरूपाणि, नारदीये, “प्रसन्नवदनाः सौम्या वरदाः शक्तिपाणयः । पद्मासनस्था द्विभुजाः कर्त्तव्या वसवः सदा । पद्मासनस्था द्विभुजाः पद्मगर्भान्तकान्तयः । करादिस्कन्धपर्य्यन्तनालपङ्कजधारिणः । अधःसंस्थित- मेषादिराशयः प्रावृताङ्घ्रिकाः । इन्द्राद्या द्वादशादि- त्यास्तेजोमण्डलमध्यगाः” तथा । वायुतुल्येन रूपेण मरुतो नाम देवताः” । कर्त्तव्या इति शेषः, वस्वादि- नामानि, तुलापुरुषोक्तानि वेदितव्यानि । महारत्न- समन्वितमिति, महारत्नानि परिभाषायामुक्तानि, अ- नन्तमिथुनान्वितमिति क्वचित्पाठः । “फणासप्तान्वितो- ऽनन्तः पृथ्वी स्त्रीरूपधारिणीत्यनन्तमिथुनम् । अथ प्रकृतमुच्यते” वितस्तेरङ्गुलशतं यावदायामविस्तरम् । कौशे- यवस्त्रसंवीतं तिलद्रीणोपरि न्यसेत् । तथाष्टादश धा- न्यानि समन्तात्परिकल्पयेत्” । वितस्तेरङ्गुलशतमिति, द्वादशाङ्गुलमारभ्याङ्गुलशतंयावच्छक्त्यनुसारेण कार्य्य- मित्यर्थः । द्रोणमानमष्टादश धान्यानि च परिभाषायां द्रष्टव्यानि । स च तिलद्रोणो वेदिकायां लिखितचक्र- स्योषरि स्थापनीयः । “पूर्वेणानन्तशयनं प्रद्युम्नं पूर्व- दक्षिणे । प्रकृतिर्दक्षिणे देशे संकर्षणमतः परम् । पश्चिमे चतुरोवेदाननिरुद्धमतः परम् । अग्निमुत्तरतो हैमं वासुदेवमतः परम् । समन्ताद्गुणपीठस्थानर्चगेत् काञ्च- नान् बुधः । स्थापयेद्वस्त्रसंवीतान् पूर्णकुम्भान् दशैव तु” । पूर्वेणेत्यादि, ब्रह्माण्डात् पूर्वदेशे अनन्तशयनं शेषशायिनं गुण (सत्त्वादि) पीठे स्थापयेत्, तन्मूर्त्तिलक्षणं विष्णुधर्मोत्तरात् “देवदेवश्च कर्त्तव्यः शेषसुप्तश्चतुर्भुजः । एकपादोऽस्य कर्त्तव्यो लक्ष्म्युत्सङ्गगतः प्रभोः । तथाऽपरश्च कर्त्तव्यः शेषभोगाङ्कसंस्थितः । एकोभुजोऽस्य कर्त्त- व्यस्तत्र जानौ प्रसारितः । कर्त्तव्यो नाभिदेशस्थ- स्तथा तस्यापरः करः । तथैवान्यः करः कार्य्यो देवस्य तु शिरोधरः । सन्तानमञ्जरीधारो तथाचास्य करः परः । नाभिसम्भूतकमले सुखासीनः पितामहः । नाललग्नौ तु कर्त्तव्यौ पद्मस्थौ मधुकैटभौ । शङ्खचक्रगदादीनि मूर्त्तानि परितो न्यमेदिति” । प्रद्युम्नलक्षणं पञ्चरात्रा- दिषु “दक्षिणोर्द्धकरे पद्मं दद्याच्छङ्खमधः करे । च- क्रमूर्द्धे ततो वामे गदां दद्यात् तथा द्विज! । चापेषु- धृम्वा प्रद्युम्नो रूपवान् विश्वमीहनः” इति । अत्र यद्यपि प्रकृतेरव्यक्तरूपतया विधानमशक्यं तथापि ल- क्ष्म्यादिशब्दव्यपदेश्यं सुकरमस्ति तद्रूपमित्यतस्तदन्यतम- रूपनिर्माणमेव न्याय्यम् । तदुक्तं मार्कण्डेयपुराणे “सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । मातु- लङ्गं गदां खेटं पानपात्रञ्च बिभ्रती । नागं योनिञ्च लिङ्गञ्च विभ्रती नृप! मूर्द्धनीति” । संकर्षणरूपम् विष्णुधर्मोत्तरे “वासुदेवस्य रूपेण कार्य्यः संकर्षणः प्रभुः । स तु शुक्लवपुः कार्य्यो नीलवासा यदूत्तम! । गदास्थाने च सुसलञ्चक्रस्थाने च लाङ्गलमिति” । वेदमूर्त्तयो भूत- घटे वक्ष्यन्ते । अनिरुद्धरूपं नारदीये । “कृष्णं चतु- र्भुजं दक्षे शरं खड्गं तदुत्तरे । धनुःखेटधरं वीर- मनिरुद्धं प्रचक्षते” । अग्निलक्षणमुक्तम् । वासुदेवरूपमपि नारदीये “वासुदेवः शिवः शान्तः सिताभश्च चतुर्भुजः । योगमूर्द्धोर्द्धशङ्खश्च हृद्देशार्पितहस्तकः । धारयेदुत्तरे चक्रं करे वै दक्षिणे गदामिति” । एते च देवताविशेषा, ब्रह्माण्डनिर्माणकॢप्तसुवर्णात् पृथक् सुवर्णेणैव घट- नीयाः ब्रह्माण्डस्य किल विंशतिपलात्पभृति पलमह- स्राववधिरिह नियमः, पुराणेषु दृश्यते ततोऽवकृष्य- माणकाञ्चने तस्मिन् न्यूनसंख्यत्वादयथावद्विहितत्वमा- पद्यते । न च दिग्गजाष्टकसंयुक्तं लोकपालोपेतमित्या- दिना एक एव तावद्भिरङ्गैरङ्गी निष्पाद्यत इति ब्र- ब्राण्डवत्कॢप्तसुवर्णेनैव दिग्गजादिप्रतिमानिर्मितौ न कश्चिद्बाध इति वाच्यं, “कृञ्चिनान् कारयेदिति” पुनः काञ्चनोपदेशानार्थक्यापत्तेः । अश्रूयमाणपरिमाणानां प्र- तिमानामङ्गुष्ठपर्वप्रभृतिवितस्तिपर्य्यन्तं यथाशक्ति परिमाणं कल्पनीयम् । “पूर्णकुम्भान् स्थापयेदित्यत्र समन्तादिति योज्यम् । “दर्शव घेनवो देया सहेमाम्बरदोहनाः । पा- दुकीपानहच्छत्रचामरासनदर्पणैः । भक्ष्यभोज्यान्नदीपेक्षु- फलमाल्यानुलेपनैः । होमाधिवासनान्ते च स्थाविती वेदपुङ्गवैः । इत्थमुच्चारयेन्मन्त्रं त्रिःकृत्वाथ प्रदक्षिणम्” । सहेमाम्बरदोहना इति, हेमशृङ्ग्यः ताम्रदोहनाः स- वस्त्राः पार्श्वतो दक्षिणार्थमुपकल्पनीयाः । तत्राचार्य्याय द्वे, ऋत्विग्भ्योऽष्टौ संप्रदेया, जापकादीनां अन्यैव यथाशक्ति दक्षिणेति, । भविष्योत्तरे तु “ज्ञेयं निष्कशतं पार्थेत्यादिना सुवर्णमेव दक्षिणार्थमुपकल्पनीयमित्युक्तं, श्राद्धाधिवासनदिनादन्येद्युरग्निकुण्डेषु ऋत्विगुपवेशना- दिकर्मशेषसमाप्तौ तुलापुरुषदानवद्विहितायां, पूर्ववदेव स्रापितः शुक्लमाल्याम्बरधरो गृहीतकुसुमाञ्जलिर्यजमानो ब्रह्माण्डं त्रिःप्रदक्षिणीकृत्य मन्त्रमुच्चारयेत् । मन्त्रः । “नभो- ऽस्तु विश्वेश्वर! विश्वधामन्! जगत्सवित्रे भगवन्नमस्ते । सप्ताधिलोकामरभूतलेन गर्भेण सार्द्धं वितराभिरक्षाम् । ये दुःखितास्ते सुखिनो भवन्तु प्रयान्तु पापानि चरा- चराणाम् । त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषाः प्रलय व्रजन्तु । एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो दशधा विभज्य । भागद्वयं तत्र गुरोः प्रकल्प्य समम्भजे- च्छेषमतः क्रमेण” । दानवाक्यं तुलापुरुषवद्बेदितव्यं तच्च दशधा विभज्य गुरोर्भागद्वयं प्रकल्प्य अवशिष्टाष्ट- भागानामेकैकं भागं त्रिधा विभज्य चतुर्विंशतिसंख्येभ्य ऋत्विगादिभ्यः समं दद्यात्, तदनुज्ञयान्येभ्योऽपि ब्राह्म णेभ्यो दद्यात् । “स्वल्पं होमं गुरुरेक एव कुर्य्यादथैकाग्नि- विधानयुक्त्या । स एव संपूज्यतमोऽल्पवित्तैर्यथोक्तवस्त्रा- भरणादिकेन” । विंशतिपलादारभ्य पलसहस्रावधिद्रव्ये ब्रह्माण्डे सहस्रतदर्द्धादित्युत्तममध्यमादित्रैविध्यकल्प- नायां कनीयोभागस्याल्पत्वमवधेयं, विंशतिपलनिर्मित- स्यैवालपत्वमित्येके उक्तविंशतिपलादर्वाक् यथाशक्ति- विधान खल्पत्वमवगन्तव्यमिति केचित् । एकाग्निविधानम् एकस्मिन्नेव कुण्डे होमकरणम् कुण्डमपि वरुणदिग्- भागस्थितं वृत्ताकारञ्च कार्य्यं तदेतत्परिभाषायामुपपा- दितम् । अथ पुण्याहवाचने कृते देवतावेदीसमीपं गत्वा पूर्ववद्यजमानेन देवतापूजायां विहितायामाचार्य्यो विस- र्जनं विदध्यात् । “इत्थं य एतदखिलं पुरुषोऽत्र कुर्य्या- दब्रह्माण्डदानमधिगम्य महद्विमानम् । निर्धूतकल्मष- विशुद्धतनुर्मुरारेरानन्दकृत् पदमुपैति सहाप्सरोभिः । सन्तारयेत् पितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्र- शताष्टकं सः । ब्रह्माण्डदानशकलीकृतपातकौघमानन्द- येच्च जननीकुलमप्यशेषम् । इति पठति शृणोति वा य एतत् सुरभवनेषु गृहेषु धार्मिकाणाम् । मतिमपि च ददाति मोदते सोऽमरपतिभवने सहाप्सरोभिः” । “राजोवाच विधिं ब्रह्माण्डदानस्य कृत्वा यं मोक्ष- भाग्भवेत् । कालं देशं द्विजं तीर्थं सर्वमेत- द्वदस्व मे । कृतेन येन सर्वस्य फलभागी भवा- म्यहम् । कुत्सितस्यास्य भावस्य मोक्षः स्यादचिराच्च मे । वशिष्ठ उवाच “एवं श्रुत्वा ततो राजन्! पुरोधास्तस्य तं द्विजः । ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः । पीठं निष्कसहस्रेण पद्मं तत्र प्रकल्पयेत् । तत्र ब्रह्मा तस्य मध्ये पद्मरागैरलङ्कृतः । सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह । नारदाद्यैः सुतैः सर्वैरिन्द्राद्यैश्च सुरैस्तथा । सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः । वाराहरूपो भगवान् लक्ष्म्या सह सनातनः । नीला- न्मरकतांश्चैव भूषायान्तस्य कारयेत् । रजतस्य विशुद्धस्य देहं रुद्रस्य कारयेत् । गोमेदकैस्तस्य शोभाङ्कारयेदत्र बुद्धिमान् । मौक्तिकैश्चापि सोमस्य शोभां वल्कैर्दिवा- करैः” । सावित्रीगायत्र्यौ तु, व्रह्मणः पार्श्वभागे स्थाप- नीयौ । तदाह नारदः “सावित्री दक्षिणे पार्श्वे गायत्री नाम वामतः । विलोकयन्त्यौ ब्रह्माणं साक्षसूत्रकमण्ड- लुम्” । ऋषयः सप्त गोतमाद्याः तदुक्तमादित्यपुराणे “गो- तमश्च भरद्वाजो विश्वामित्रश्च काश्यपः । जमदग्नि- र्वशिष्ठोऽत्रिः सप्त वैवस्वतेऽन्तरे” । सप्तर्षिलक्षणमाह यमः “पप्तर्षयस्तु जटिलाः कमण्डल्वक्षसूत्रिणः । ध्यान- निष्ठा वशिष्ठस्तु कार्य्यो भार्य्यासमत्वितः” । मुनयो वानप्रस्थाः, नारदाद्यैरिति तेषां विशेषणम्” । तानाह मनुः “अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सदुस्तरम् । पतीन् प्रजानामसृजं महर्षीनादितो दश । मरीचि- मत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठञ्च भृगुन्नारदमेव च” । तल्लक्षणमाह विश्वकर्मा “जटिलाः श्मश्रुलाः शान्ता दशाऽऽधमनिसन्तताः । कुसुम्भाक्षधराः कार्य्या मुनयो द्विभुजाः सदा । तेषु सव्यभुजामूलश्लिष्ट- चीरस्तु नारदः । कर्पूरगौरदेहश्च साक्षसूत्रकमण्डलुः” । इत्यादिरूपाण्यपि प्रागभिहितानि । वाराहरूपं विष्णु- धर्मोत्तरे “वाराहरूपः कार्यस्तु शेषोपरिगतः प्रभुः । शेषश्चतुर्भुजः कार्य्यश्चारुरत्नफणान्वितः । कर्त्तव्यौ सीर- मुसलौ करयोस्तस्य यादव! । सर्परूपश्च कर्त्तय्यस्तथैव रचिताञ्जलिः । आलीटस्थानसंस्थानस्तत्पृष्ठे भगवान् भवेत् । वामारत्निगता तस्य योषिद्रूपा वसुन्धरा । नमस्कारपरा तस्य कर्त्तव्या द्विभुजा शुभा । यस्मिन् भुजे धरा देवी तत्र शङ्खः करे भवेत् । अन्ये तस्य कराः कार्य्याः पद्मचक्रगदाधराः । पद्मासनस्थां कुर्वीत श्रियं त्रैलोक्यमातरम् । गौरवर्णां सुरूपाञ्च सर्वालङ्कारभूषिताम् । रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन तु” । रुद्ररूपं प्रागभितं ग्रहलक्षणानि तद्वर्णाश्च नवग्रह- दाने वक्ष्यन्ते । सर्ववर्णानि ग्रहसमानवर्णानि, रत्नानि भूषणार्थं दापयेदित्यर्थः । सर्वधातुभिः ब्रह्माण्डं कर्त्त- व्यमित्युक्तं, तत्र सुवर्णस्य पीठनिर्माणादिविनियोगमभि- धायेदानीं धात्वन्तरैः कर्त्तव्यं तदुच्यते “पीठात् सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम् । ताम्रात् सप्त गुणं कार्य्यं कांस्यमत्र नराधिव! । त्रपुणः परतः सीसं तावल्लोहं च कारयेत् । सप्तद्वीपाः समुद्राश्च सप्तैव कुल- पर्वताः । अनया संख्यया ज्ञात्वा निपुणैः शिल्पिभिः कृताः” । तथाविधं सप्तगुणमित्यर्थः सप्तद्वीपा इत्यादि एतेषामेकैकधातुना एकैकं द्वीपं समुद्रं कुलाचलञ्च रचये- दित्यर्थः । “यादसानि च भूतानि राजतान्येव कार- येत् । आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत् । वृक्षान् वनस्पतींश्चात्र तृणवल्लीः सवीरुधः” । याद- सानि, जलसम्भवानि, पुष्पफलवन्तो वृक्षाः अपुष्पाः फलिनोवनस्पतयः, वीरुधोगुच्छगुल्मादयः । “सर्वं प्र- कल्प्य विधिवत्तीर्थे देयं विचक्षणैः । कुरुक्षेत्रे गयायां च प्रयागेऽमरकण्ठके । द्वारवत्यां प्रभासे च गङ्गाद्वारे च पुष्करे । तीर्थेष्वेतेषु वै देयं ग्रहणे सोमसूर्य्ययोः । दिमच्छेदेषु सर्वेषु अयने दक्षिणोत्तरे । व्यतीपाते बहुगुणं विषुवे च विशेषतः । दातव्यमेतद्राजेन्द्र! वि- चारं नैव कारयेत् । कालाग्निहीत्रिणं विप्रं सुरू- पञ्च गुणान्वितम् । सपत्नीकं च संपूज्य भूषयित्वा वि- भूषणैः । पुरोहितं मुख्यतमं कृत्वान्यांश्च तथर्त्विजः । चतुर्विंशद् गुणोपेतान् सपत्नीकान्निमन्त्रितान् । अहता- म्बरसुच्छन्नान् स्रग्विणः सुविभूषितान् । अङ्गुलीयकर- त्नानि कर्णवेष्टांश्च दापयेत् । एवंविधांश्च संपूज्य तेषामग्रे स्वयं स्थितः । अष्टाङ्गप्रणिपातेन प्रणन्य च पुनः पुनः । पुरोहिताय पुरतः कृत्वा वैकरसंपुटम् । यूयं वै ब्रह्मणा धात्रा, मैत्रत्वेनानुगृह्यताम् । सौमुख्येनेह भवताम्भवेत् पूतोनरः स्वयम् । भवतां प्रोतियोगेन स्वयं प्रीतः पिता- महः । ब्रह्माण्डेन तु दत्तेन तेषां प्रीतो जनार्दनः । पिना- कपाणिर्भगवान् शक्रश्च त्रिदशेश्वरः । एते वै तोषमायान्ति अनुध्याता द्विजोत्तमैः । एव स्तुत्वा ततो राजा ब्राह्मणान् वेदवारमान् । ब्रह्माण्डं गुरवे प्रादात् स- विधानं पुनः पुनः । सर्वकामैस्ततस्तप्तो ययौ स्वर्गं नराधिपः । तेनापि गुरुणा तच्च विभक्तं ब्राह्मणैः सह । दत्तस्तैरपि चान्येभ्यो ब्रह्माण्डांशो नराधिप! । ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद्भवेत् । गृह्ण- न्दीषमवाप्नोति ब्रह्महत्यां न संशयः । सर्वेषाञ्चैव प्रत्यक्षं दातव्यं तन्नराधिप! । दीयमानञ्च पश्यन्ति तेऽपि पूता भवन्ति हि । दर्शनादेव ते पूता भवेयुर्नात्र संशयः” । पद्मपुराणोक्तस्तद्विधिर्यथा “शृणु वत्स! प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् । तच्च द्वादशसाहस्रं भाविकल्पकथायुतम् । प्रक्रियाख्यो १ ऽनषङ्गाख्य २ उपोद्घात ३ स्तृतीयकः । चतुर्थ उपसंहारः ४ पादाश्चत्वार एव हि । पूर्वपादद्वयं पूर्वो भागोऽत्र समु- दाहृतः । तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः । तत्र पूर्वभागे प्रक्रियापादे “आदौ कृत्यसमुद्देशो नैमिषा- ख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च । एष वै प्रथमः पादो द्वितीयं शृणु मानद” । पूर्वभागे अनुषङ्गपादे “कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् । मानससृष्टिकथनं रुद्रप्रसववर्णनम् । महादेवविभूतिश्च ऋषिसर्गस्ततःपरम् । अग्नीनां विचयश्चाथ कालस- द्भाववर्णनम् । प्रियव्रताचयोद्देशः पृथिव्यायामवि- स्तरः । वर्णनं भारतस्यास्य ततीऽन्येषां निरूपणम् । जम्ब्वादिसप्तद्वीपाख्या ततोऽधीलोकवर्णनम् । ऊर्द्ध्वलोका- नुकथनं ग्रहचारस्ततःपरम् । आदित्यव्यूहकथनं देव- ग्रहानुकीर्त्तनम् । नीलकण्ठाह्वयाख्यानं महादेवस्य वैम- वम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् । यज्ञप्रवर्त्तनं चाथ युगयोरन्त्ययोः कृतिः । यगप्रजालक्षणञ्च ऋषि- प्रवरवर्णनम् । वेदानां व्यसनाख्यानं स्यायम्भुवनिरूपणम् । शेषमन्वन्तराख्यानं पृथिवीदोहनन्ततः । चाक्षुषेऽद्यतने सर्गो द्वितीयोऽङ्घ्रिः पुरोदले” । मध्यभागे उपोद्घातिपादे “अथोपोद्घातपादे तु सप्तर्षिपरिकीर्त्तनम् । प्राजा- पत्यचयस्तस्माद्देवादीनां समुद्भवः । ततो जयाभिव्या- हारौ मरुदुत्पत्तिकीर्त्तनम् । काश्यपेयानुकथनम् ऋषि- वंशनिरूपणम् । पितृकल्पानुकथनं श्राद्धकल्पस्ततः- परम् । वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् । मनु- पुत्राचयश्चातो गान्धर्वस्य निरूपणम् । इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः । अमावसोराचयश्च रजेश्चरित- मद्भुतम् । ययातिचरितञ्चाथ यदुवंशनिरूपणम् । कार्त्त- वीर्य्यस्य चरितं जामदग्न्यं ततः परम् । कृष्णिवंशानु- कथनं सगरस्याथ सम्भवः । भार्गवस्यानुचरितं तथा- र्य्यकबधाश्रयम् । सगरस्याथ चरितं भार्गवस्य कथा पुनः । देवासुराहवकथा कृष्णाविर्भाववर्णनम् । इनस्य च स्तवः पुण्यः शुक्रेण परिकीर्त्तितः । विष्णुमाहात्म्य- कथनं बलिवंशनिरूपणम् । भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे । एवमुद्द्वातपादाऽयं तृतोयो मध्यमे दले” । उत्तरभागे उपसंहारपादे “चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे । वैवस्वतान्तराख्यानं विस्तरेण यथातथम् । पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते । भविष्याणां मनू- नाञ्च चरितं हि ततः परम् । कल्पप्रलयनिर्देशः काल- मानं ततः परम् । लोकाश्चतुर्दश ततः कथिता मान- लक्षणैः । वर्णनं नरकाणाञ्च विकर्माचरणैस्ततः । मनीमयपुराख्यानं लयः प्राकृतिकस्ततः । शैवस्याथ पुर- स्यापि वर्णनञ्च ततः परम् । त्रिविधाद्गुणसम्बन्धा- ज्जन्तूनां कीर्त्तिता गतिः । अनिर्देश्याप्रतर्कस्य ब्रह्मणः परमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् । इत्येष उपसंहारः पादो वृत्तः स चोत्तरः । चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतम् । अष्टादशमनौपम्यं सारात् सारतरं द्विज! । ब्रह्माण्डञ्च चतुर्लक्षं पुराण- त्वेन पठ्यते । तदेव व्यस्य गदितमत्राष्टादशधा पृथक् । पाराशर्य्येण मुनिना सर्वेषामपि मानद! । वस्तुद्रष्ट्राथ तेनैव मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे । मुनयो धर्मशीलास्ते दीनानुग्रह- कारिणः । मया चेदं पुराणन्तु वशिष्ठाय पुरोदितम् । तेन शक्तिसुतायोक्तं जातूकर्णाय तेन च । व्यासो लब्ध्वा ततश्चैतत् प्रमञ्चनमुखोद्गतम् । प्रमाणीमत्य लोके- ऽस्मिन् प्रावर्त्तयदनुत्तमम्” । तत्फलश्रुतिः “य इदं कीर्त्तयेद्वत्स! शृणोति च समाहितः । स विधूयेह पापानि याति लोकमनामयम् । लिखित्वैतत् पुराणन्तु स्वर्णसिंहासनस्थितम् । पात्रेणाच्छादितं यस्तु ब्रह्मणाय प्रयच्छति । स याति ब्रह्मणा लोकं नात्र कार्य्या विचारणा । मरीचे! ऽष्टादशैतानि मया प्रोक्तानि यानि ते । पुराणानि तु सक्षेपाच्छ्रोतव्यानि च विस्त- रात् । अष्टादश पुराणानि यः शृणोति नरोत्तमः । कथयेद्वा विधानेन नेह भूयः स जायते । सूत्रमेतत् पुराणानां यन्मयोक्तं तवाधुना । तन्नित्यं शीलनीयं हि पुराणफलमिच्छता । न दाम्भिकाय पापाय देव- गुर्वनुसूयवे । देयं कदापि साधूनां द्वेषिणे न शठाय च । शान्ताय रागिचित्ताय श्रूश्रुषाभिरताय च । निर्सत्सराय शुचये देय सद्वैष्णवाय च” नारदीयपु० ४ पा० १०९ अ० ।



Correction: