शब्दकल्पद्रुमः
व्राजिः || स्त्री (व्रजति गच्छतीति । व्रज गतौ + “वसिवपियजीति ।” उणा० ४ । १२४ । इति इञ् ।) वायुः । व्रजधातोरौणादिकेञ्प्रत्ययेन निष्पन्नमेतत् ॥