संस्कृत-शब्दकोशः

व्राजि व्रातीन

व्रात

वाचस्पत्यम्

व्रात ||‍ पु० वृ—अतच् पृषो० । समूहे अमरः ।


शब्दकल्पद्रुमः

व्रातः || पुं, समूहः । इत्यमरः ॥ (यथा, भागवते । ४ । २५ । १९ । “बानारण्यमृगव्रातैरनावाधे मुनिव्रतैः । आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥”)
व्याधादिः । इति व्रात्यशब्दटीकायां भरतः ॥ (मनुष्यः । इति निघण्टुः । २ । ३ । “वृञ् वरणे ‘तातव्रातलातसुपित्त’ इत्यादिसूत्रेण भोज- राजेन कृत्प्रत्यये आडागमो निपात्यते । वृण्वन्ति स्वमभिमतं देवताभ्यः तपसाराधितेभ्यः प्रव्रियन्ते वा यज्ञादौ । यद्वा, व्रातो धान्यादि- सञ्चयः । तद्बन्तो व्राता मत्वर्थीयोऽकारः । यद्बा, व्रतमिति कर्म्मनाम अन्नं वा । अन्नमपि व्रतायैतस्मादेवेत्युक्तेः तदीयाः ‘तस्येदम्’ इत्यण् । ‘कर्म्मणा जायते जन्तुः कर्म्मणैव प्रमुच्यते’ इत्युक्तेः कर्म्मणामधिकारित्वाच्च मनुष्याणां कर्म्मसम्बन्धि- त्वम् । ‘अथो अन्नाद् भूतानि जायन्ते जाता- न्यन्नेन वर्द्धन्ते’ इति । अन्नात् रेतो रेतसः पुरुषः इति च श्रुतेः मनुष्याणामन्नसम्बन्धित्वम् ।” इति तट्टीकायां देवराजयज्वा ॥ अस्मिन्नर्थे प्रायशो बहुवचनप्रयोगो दृश्यते ॥ * ॥
क्ली, शरीरायासजीविकर्म्म । इति काशिका । ५ । २ । २१ ॥)



Correction: