वाचस्पत्यम्
व्रात्यस्तोम || पु० व्रात्ययोग्यः स्तोमः । यज्ञभेदे “स च यज्ञश्चतुर्विधः” कात्या० श्रौ० २२ । ४ । १ सूत्रादौ दर्शितो यथा “व्रात्यस्तोमाश्चत्वारः” सू० “व्रात्यस्तोमसंज्ञकाश्चत्वारः क्र- तवो भवन्ति व्रात्याः प्रसिद्धा एव त्रिपुरुषं पतितसावि- त्रीकाः । प्रायश्चित्तार्थत्वाच्च लौकिकेऽग्नौ भवन्ति न ह्ये- तैराधानं प्रयुज्यते अतदङ्गत्वात् तदुक्तमाचार्य्येण स्थप- तीष्टिं प्रकृत्य लौकिक इति । “द्वितीय उक्थ्यः” सू० “व्रात्यगणस्य ये सम्पादयेयुस्ते प्रथमेन यजेरन्” सू० सम्पादनं च गायननर्तकादीनाम् तेषां प्रथमेऽधिकारः । ये व्रात्या नृत्यगीतवाद्यशस्त्रधारणादौ स्वयं प्रवीणाः सन्त उपदेष्टारो भूत्वा स्वां विद्यां व्रात्यसभूहस्य सम्बा- दयेयुः शिक्षेयुः पाठयेयुः ते प्रथमेन यजेरन् । “द्वितो- येन निन्दिता नृशंसाः” सू० । नृशंसत्वेन ये निन्दिता- स्तेषां द्वितीयेऽधिकारः” सं० । ये नृशंसा निन्दितानृभि- र्मनुष्यैरभिशंसनेन पापाध्यारोपणेन निन्दिताः गर्हिताः ज्ञातिभिर्वहिष्फृताः ते द्वितीयेन यजेरन्” कर्कः “तृतीयेन कनिष्ठाः” सू० कनिष्ठाः लघवः । “ज्येष्ठाश्चतुर्थेन” सू० अधिक्रियन्ते । ज्येष्ठशब्दार्थमाह “अपेतप्रक्षननास्थ- विरास्तदाख्यास्तेषां ये नृशंसतमः स्याद्द्रव्यवत्तमो वा- नूचानतमो वा तस्य गार्हपत्ये दीक्षेरन्” सू० । “स गृह- पतिः कर्त्तव्यः” सं० । अपगतप्रजनेन्द्रियसामर्थ्या यौवना- पगमे । निर्वीर्य्यप्रजनाः स्थविरा वृद्धास्तदाख्याः । नृशंस- तमः अत्यन्तं क्रूरकर्मा” भा० ।
शब्दकल्पद्रुमः
व्रात्यस्तोमः || पुं, यज्ञविशेषः । यथा, —
“सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥ इति गारुडे ९४ अध्याये ॥ तथा, याज्ञवल्क्ये । १ । ३८ ॥