संस्कृत-शब्दकोशः

व्राह्मगुप्त व्राह्मणक

व्राह्मण

वाचस्पत्यम्

व्राह्मण is an alternate of ब्राह्मण. ब्रा(व्रा)ह्मण ||‍ पुंस्त्री० ब्रह्म वेदं शुद्धं चैतन्यं वा वेत्त्यधीते वा अण् “ब्रह्मणो जाताविति” पा० न टिलोपः ब्रह्मणो मुखजातत्वात् ब्रह्मणोऽपत्यम् वा अण् । १ विप्रे जाति- भेदे स्त्रियां जातित्वात् ङीष् । २ पुक्कायां स्त्री ङीप् । “ब्रह्म जानाति ब्राह्मणः” इत्युक्ते ३ परब्रह्मज्ञे त्रि० । ब्राह्मणक्षेत्रे ब्राह्मणाज्जातदेहे तत्सङ्कल्पजातदेहे च बाह्मणत्वजातिः स्वीक्रियते यथा गोमयवृश्चिको भयजातदेहस्य वृश्चिकत्वं तद्वत् । तत्र सङ्कल्पजाते देहे ब्राह्मणत्वं यथा नारदद्रोणादौ । इदानीञ्च ब्राह्मणस्य सत्यसकल्पत्वाभावान्न तथात्वम् । किञ्च कलौ असवर्णा विवाहनिषेधादपि न तथात्वम् । “ब्राह्मण्यां ब्राह्मणाज्जाती ब्राह्मणः स्यान्न संशयः । क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि” भा० दानधर्म- वाक्यस्यापि संकल्पभेदादेव तथात्वेन युगान्तरविषयत्वम् । तस्य लक्षणं यथा “क्षात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यर्ते” वह्निपु० । “न क्रुध्येन्न प्रह्रष्टेच्च मानितोऽमानितश्च यः । सर्वभूतेष्वभयदस्तं—देवा ब्राह्मणं विदुः । अहेरिव गणा- द्भीतः सौहित्यान्नरकादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः । येन केनचिदाच्छन्नो येन केनचि- दाशितः । यत्र क्व चन शायी च तं देवा ब्राह्मणं विदुः । विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् । अस्वमेक- चरं शान्तं तं देवा ब्राह्मणं विदुः । जीवितं यस्य ध- र्मार्थं धर्मो रत्यर्थमेव च । अहोरात्रश्च पुण्यार्थस्तं देवा ब्राह्मणं विदुः । निराशिषमनारम्भं निर्नमस्कर- मस्ततिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः” भा० मोक्षध० । “विशाखयूप उवाच । विप्रस्य लक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता । यतस्तवानु- ग्रहेण वाग्बाणाः ब्राह्मणाः कृताः” । कल्किरुवाच “वेदास्तमोश्वरं प्राहुरष्यक्तं व्यक्तिमत् परम् । ते वेदा ब्रा- ह्मणमुखे नानाधर्माः प्रकाशिताः । यो धर्मो ब्राह्मणानां हि सा भक्तिर्मम पुष्कला । तयाहं तोषितः श्रीशः संभवामि युगे युगे । ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानि- र्मितं शमैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः । त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् । शिरोधरा- न्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् । यजुर्विदां नाभि- मितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञ- सूत्रं बलप्रदम् । मृद्भस्मचन्दनाद्यैस्तु धारवेत्तिलकं द्विजः । भाले त्रिपुण्ड्रं कर्माङ्गं केशपर्य्यन्तमुज्ज्वलम् । पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधा कृतम् । ब्रह्म- विष्णुशिवावासं दर्शनात् पापनाशनम् । ब्राह्मणानां मुखे स्वर्गा वाचि वेदाः करे हरिः । गात्रे तीर्थानि यागाश्च नाडीषु प्रकृतिस्त्रिवृत् । सावित्री कण्ठकुहरा हृदयं ब्रह्मसङ्गतम् । तेषां स्तनान्तरे धर्मः पृष्ठेऽधर्मः प्रकीर्त्तितः । भूदेवा ब्राह्मणा राजन्! पूज्या वन्द्याः सदुक्तिभिः । चातुराश्रम्यकुशला मम धर्मप्रवर्त्तकाः । व लाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः । तेषां वचः पालयितुमवताराः कृता मया । माहाभाग्यं ब्रा- ह्मणानां सर्वपापप्रणाशनम् । कलिदोषहरं श्रुत्वा मुच्यते सर्वतोभयात्” कल्किपु० ४ अ० । “कर्मणा ब्रह्मणो जातः करोति ब्रह्मभावनाम् । स्वधर्मनिरतः शुद्वस्तस्माद्- ब्राह्मण उच्यते” ब्रह्मवे० गणेशख० ३५ अ० । “जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शचिः । वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः । शौचाचार- परो नित्यं विघसाशी गुरुप्रियः । नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते । सत्यं दानमथाऽद्रोह आनृशंस्य कृपा घृणा । तपश्च दृश्यते यत्र स ब्रह्मण इति स्मृतः” । तस्य धर्मो यथा “ब्राह्मस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् । दममेव महाराज । धर्ममाहुः पुरा- तनम् । स्वाध्यायाभ्यसनञ्चैव तत्र कर्म समाप्यते । तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्मणि । अकर्वाणं विकर्माणि श्रान्तं प्रज्ञानतर्पितम् । कुर्वीतोपेत्य सन्तान- मथ दद्याद्यजेत च । संविभज्यापि भोक्तव्यं धनं सद्भि- रितीष्यते । परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः । कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते” पाद्मे स्वर्गख० २६ अ० । तस्य माहात्म्यादि यथा । “सर्वेषा- मेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः । सर्वदेवाग्रजो विप्रः प्रत्यक्षत्रिदशो भुवि । स तारयति दातारं द्स्तरे विश्वसागरे । हरिशर्मोवाच । सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम! । तेषां मध्ये च कः श्रेष्ठः कस्मै दानं प्रदीयते । ब्रह्मोवाच । सर्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि । अविद्या वा सविद्या वा नात्र कार्य्या विचारणा । स्तेयादिदोषलिप्ता ये ब्राह्मणा ब्राह्मणोत्तम! । आत्मभ्यो द्वेषिणस्तेऽपि परेम्यो न कदाचन । अनाचारा द्विजाः पूज्या न च शूद्रा जिते- न्द्रियाः । अभ्यक्ष्यमक्षंका गावः कोलाः सुमतयो न च । माहात्म्यं भूमिदेवानां विशेषादुच्यते मया । तव स्ने- हाद्द्विजश्रेष्ठ! निशामय समाहितः । क्षत्रियाणाञ्च वैश्यानां शूद्राणां गुरवो द्विजाः । अन्योऽन्यं गुरवो ज्ञेयाः पूजनीयाश्च भूसुर! । ब्रह्मणं प्रणमेदयस्तु विष्णु- बुद्ध्या नरोत्तमः । आयुः पुत्राश्च कीर्त्तिश्च सम्पत्ति- स्तस्य वर्द्धते । न च नौति द्विजं यस्तु मूढधीर्मानवी भुवि । सुदर्शनेन तच्छीर्षं हन्तुसिच्छति केशवः” । पुष्पादिहस्तस्य विप्रस्य प्रणामनिषेधो यथा । “पुष्प- हस्तं पयोहस्तं देवहस्तञ्च भूसुर! । न नमेद ब्राह्मण प्रातस्तैलाभ्यङ्गितविग्रहम् । जलस्थं देववेश्म स्थं ध्यान- माज्जतचेतसम् । देवपूजाञ्च कुर्वन्तं न नमेद् ब्राह्मणं बुधः । बहिष्क्रिया । प्रकुर्वन्तं भुञ्जानञ्च द्विजोत्तम! । तथा सामानि गायन्तं न नमेद् ब्राह्मणं बुधः । ब्राह्मणा यत्र तिष्ठन्ति बहवीं द्विजसत्तम । प्रत्येकन्तु वमस्कार- स्तत्र कार्य्यो न धीमता । कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत् । स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदापि च । कृतप्रणामं तनयं नमेतां पितरौ न च । कृनप्रणामाः सर्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः । कृत- दोषान् द्विजान् गाश्च न द्विषन्ति विचक्षणाः । द्विषन्ति घापि मोहेन तेषां रुष्टः सदा हरिः । याचकान् ब्राह्म- णान् यस्तु कोपदृष्ट्या प्रपश्यति । सूचीप्रक्षेपणं तस्य नेत्रयोः कुरुते यमः । विपनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्वते । तस्मिन् वर्क्त्र यमस्तप्तं लौहपिण्डं ददाति वै । ब्राह्मणो यद्गृहे भुङक्त तद्गृहे केशवः स्वयम् । देवताः सकला एव पितरश्च सुरर्षयः । तस्य पादो दकादिमाहात्म्य यथा “विप्रपादोदकं यस्तु कणमात्रं बहेद्बुधः । देहस्थ पातकं तस्य सर्वमेवाशु नश्यति । कीटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि च । तानि स- र्वाणि तीर्थानि वसन्ति द्विजपादयोः । विप्रपादोदकैर्नित्यं सिक्तं स्याद् यस्य मस्तकम् । स स्नातः सर्वतीर्थेषु सर्वय- ज्ञेषु दीक्षितः । सर्वपापानि घोराणि विप्रहत्यादिकानि च । सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात् । क्षयाद्या व्याधयः सर्वे परमक्लेशदायकाः । गच्छन्ति विलय सद्यो विप्रपादाम्ब भक्षणात् । पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः । तस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्र- तारकम् । प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः । तेनाचितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः । विप्राणां पादनिर्माल्यं यो मर्त्यः शिरसा वहेत् । सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती” । तस्य प्रद- क्षिणफलम् “विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा” । तस्य पाद सेवनफलम् “यो दद्यात् फलताम्बूलं विप्राणां पाद- सेवने । इह लोके सुखं तस्य परलोके ततोऽधिकम् । पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी लभते मोक्षं विप्रपादस्व सेवनात् । रोगी रोगात् प्रमु- च्येत पापी मुच्येत पातकात् । मुच्येत बन्धनाद्बद्धो विप्राणां पादसेवनात । अनपत्याश्च या नार्य्यो मृताऽ- पत्याश्च या स्त्रियः । बह्वपत्या जीववतसाः स्वुर्विप्रपाद- सेवनात्” पाद्मे क्रियायोगसारे २ अ० । तस्य सन्ध्या- वन्दनाकरणे दोषो यथा “नोपतिष्ठति यः पूर्वां नो- पास्ते यस्तु पश्चिमाम् । स शूद्रवद्वहिः कार्य्यः सर्व- स्माद् द्विजकर्मणः” मनुः । अन्यत्र च “न गृह्णन्ति सुरा- स्तेषां पितरः पिण्डतर्पणम् । स्वेच्छया च द्विजातेश्चा त्रिसन्ध्यरहितस्य च । तस्य सन्ध्याबन्दनफलं यथा “याजज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति हि । स च सूर्य्यसमो बिप्रस्तेजसा तपसा सदा । तत्पादपद्मरजसा सद्यः पूता वसुन्धरा । जीवन्मुक्तः स तेजस्वी सन्ध्या पूतो हि यो द्विजः । तीर्थानि च पवित्राणि तस्य सं- स्पर्शमात्रतः । ततः पापानि यान्त्येव वैनतेयादिवो- रगाः । तस्य निन्द्यकर्माणि यथा “विष्णुमन्त्र विहीनश्च त्रिसन्ध्यरहितो द्विजः । एकादशीविहीनश्च विषहीनो यथोरगः । हरेर्नैवद्यभोगी न धारको वृष- वाहकः । शुद्रान्नभोजी विप्रश्च विषहीनो यथोरगा । शवदाही च शूद्राणां यो विप्रा वृषलीपतिः । शूद्राणां सूपकारी च शूद्रयाजी च यो द्विजः । असिजीवी- मसीजीवी विषहीनो यथोरगः । यो विप्रोऽवीरान्न भोजी ऋतुस्नातान्नभोजकः । भगजीवी बार्द्धुषिको विषहीनो यथोरगः । यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी । यो विद्याविक्रयी विप्रो विषहीनो यथोरगः । सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः । शिवपूजादिरहितो विषहीनो यथोरगः” । ब्रह्मवै० प्र० २१ अ० । अन्यत्र च “यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः । स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमः स्मृतः । विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् । तत्पितृणां सुराणाञ्च पूजने तत् समं सति! । काटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् । द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः । ब्राह्मणश्च सुरापीतः विड्भोजी वृषलीपतिः । हरिवासरभोजी च कुम्भी- पाकं व्रजेद्ध्रुवम्” । “करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां वा न करोति यः । त्रिसन्ध्यं वर्जयेद् यो वा सन्ध्या- हीनश्च स द्विजः” । नारायणक्षेत्रादितीर्थे तस्य प्रति- ग्रहदोषो यथा “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे । वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे । पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले । हारिद्वारे च केदारे सोमे वदरपाचने । सरस्वतीनदीतीरे पुण्ये वृन्दा- वने वने । गोटावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमा- लये । एतेष्वन्धेषु यो दानं प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च” । पारि- भाषिकमहापातकिब्राह्मणा यथा “सप्तोद्रिक्तशूद्रयाजी ग्रामयाजीति कीर्त्तितः । देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः । शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः । सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः । एते महा- पातकिनः कुम्भीपाकं प्रयान्ति ते” ब्रह्मवै० ज० ख० २७ अ० । “ब्राह्मणस्य स्वधर्मश्च त्रिसन्ध्यमर्चन हरेः । तत्पादोद कनैवेद्यभक्षणञ्च सुधाधिकम् । अन्नं विष्ठा जलं मूत्रमनिवेद्य हरेर्नृप । भवन्ति शूकराः सर्वे ब्राह्मणा यदि भुञ्जते । आजीवं भुञ्जते विपा एकादश्यां न भुञ्जते । कृष्णजन्म- दिने चैव शिवरात्रौ सुनिश्चितम् । तथा रामनवम्याञ्च यत्रतः पुण्यवासरे । ब्राह्मणानां स्वधर्मश्च कथितो वे- धसा नृप । ५९ अ० । गृहस्थब्राह्मणनियमा यथा "वेदं वेदौ तथा वेदानधीत्य तु समाहितः । तदर्थमभि- गम्याथ ततः स्नायाद् द्विजोत्तमः । गुरुवे तु धनं दत्त्वा स्नायीत तदनुज्ञया । चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः स्नातुमर्हति । वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् । यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् । छत्रञ्चोष्णीष- ममलं पादुके चाप्युपानहौ । रौक्मे च कुण्डले धार्य्ये कृत्तकेशनखः शुचिः । स्वाध्याये नित्ययुक्तः स्याद्बहि र्माल्यं न धारयेत् । अन्यत्र काञ्चनाद्विप्रो न रक्तां बि- भृयात स्रजम् । शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रिय- ष्टर्शनः । नजीर्णमलवद्वासा भवेच्च विभवे सति । न रक्त सुल्वणञ्चान्यधृतं वासो न कुण्डिकाम् । नोपानहौ स्रजं प्राथ पादुके च प्रयोजयेत् । उपवीतमलङ्कारं कुम्भान् कृष्णाजिनानि च । नापसव्यं परीदध्याद्वासा न विकृतं वसेत् । आहरेद्विधिवद्धीमान् सदृशानात्मनः शुभान् । रूपलक्षणसंयुक्तां योनिदोषविवर्जिताम् । अमातृ- गोत्रप्रभवामसमानार्षगोत्रजाम् । आहरेद्ब्राह्मणो भार्य्यां शीलशौचसमन्विताम् । ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते । वर्जयेत् प्रतिषिद्धानि प्रय- त्रेन दिनानि तु । षष्ठ्यष्टमी पञ्चदशी द्वादशी च चतु- र्दशी । ब्रह्मचारी भवेक्षित्यं तद्वज्जन्मक्षयाहनि । आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् । व्रतानि स्नातको नित्यं पावनानि च पालयेत् । येदोदितं स्वकं कर्म नित्यं कुर्य्यादतन्द्रियः । अकुर्वाणः पतत्याशु नर- कानतिभीषणान् । अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न- हापयेत् । कुर्य्यात् गृह्याणि कर्माणि सन्ध्योपासनमेव च । सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा । दैवता- न्यपि गच्छेत् तु कुर्य्याद्भार्य्याभिपोषणम् । न धर्मं ख्यापयेद्विद्वान् न पापं घयेदर्पि । कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः । वयसा कर्मणाऽर्थस्य श्रुत- स्याभिजनस्य च । देशवागबद्धिसारूप्यमाचरन् विचरेत् सदा । श्रुतिस्मृत्युदितं सम्यक साधुभिर्यश्च सेवितः । तमात्मवन्निषेवेतं नेहेतान्यत्र कर्हिचित् । येनास्य पि- तरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यति । नित्यं स्वाध्याय शीलः स्यान्नित्य यज्ञोपवीतवान् । सत्यवादी जित- क्रोधो ब्रह्मपूयाय कल्पते । सन्ध्यास्नानरतो नित्यं ब्रह्म- यज्ञपरायणः । अनुसूयुर्मृदुर्दान्तो गृहस्थः प्रत्य- यान्विता । वीतरागभयक्रोधो लोभमोहविवर्जितः । सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही । माता- पित्रोर्हिते युक्तो गोब्राह्मणहिते रतः । दाता यज्वा देवभक्तो ब्रह्मलोके महीयते । त्रिवर्गसेवी सततं देव- तानाञ्च पूजनम् । कुर्य्यादहरहर्नित्यं नमस्येत प्रयतः सुरान् । विभागशीलः सततं क्षमायुक्तो दयात्मकः । गृहस्थस्तपसा युक्तो न गृहेऽपि गृही भवेत् । क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्म नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् । एतस्मान्न प्रमा- द्येत विशेषेण द्विजोत्तमः । यथाशक्ति चरन् कर्म निन्दितानि विवर्जयेत् । विधूय मोहकलिल लब्धा योगमनुत्तमम् । गृहस्थो मुच्यते बन्धान्नात्र कार्य्या- विचारणा । विगर्हातिक्रमक्षेपहिंसाबन्धबधात्मकान् । अन्यमन्युसमुत्थानां दोषाणां बर्जनं क्षमा । स्वदुः- खेष्विव कारुण्यं परदु खेषु सौहृदात् । दया यां मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् । चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमेतच्च विद्याद् येन धर्मो विवर्द्धते । अधीत्य विधिवद्विद्यामर्थञ्चैवोप- लभ्य तु । धर्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते । सत्येन लोकं जयति सत्यन्तत् परमं पदम् । यथाभूत प्रसादन्तु सत्यमाहुर्मनीषिणः । दमः शरीरावनतिः शमः प्रज्ञाप्रसादजः । अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति । यथा स देवो भगवान् विद्यया शिव! वेद्यते । साक्षादेव महादेव! तज्ज्ञानमिति कीर्त्तितम् । तन्निष्ठ- स्तत्परो विद्धान्नित्यमक्रोधनह् शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम् । धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् । न हि देहं विना रुद्र! पुरुषैर्विद्यते परः । नित्यं धर्मार्थकामेषु युञ्जीत नियतो द्विजः । न धर्म वर्जितं काममर्थं वा मनसा स्मरेत् । सीदन्नपि स्वधर्मेण न त्वधर्मं समाचरेत् । धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु । भूतानां प्रियकारी स्यान्न परद्रोहक- र्मधीः । न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवदेत् । यस्त्विपं नियतो विप्रो धर्माध्यायं पठेत् शुचिः । अध्यापयेत्च्छ्रावयेद्वा ब्रह्मलोके महीयते” । कूर्मपु० १४ अ० "सूत उवाच । आनृशंस्यं क्षमा सत्यमहिंसा दममार्जवम् । ध्यानं प्रसादो माधुर्य्यं मार्दवं शौचमेव च । इज्या दानं तपः सत्यं स्वाध्यायीह्यात्मनिग्रहः । व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम् । एभिर्युक्तो मुनिश्रेष्ठा! यः सदा वर्त्तते द्विजः । हुत्वा तु पावकं पूर्वं परं ब्रह्माधिगच्छति । अविद्यो वा सविद्यो वा निरग्निः साग्निकोऽपि वा । यो विप्रस्तपसा युक्तः स परं स्वर्गमाप्नुयात् । सर्वेषामुत्तमं श्रेष्ठं विमुक्तिफल- दायकम् । ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु । सायं प्रातश्च यः सन्ध्यामुपास्तेऽखिन्नमानसः । जपन् हि पावनीं देवीं गायत्रीं वेदमातरम् । तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः । न सीदेत् प्रतिगृह्णन् स त्वपि पृथ्वीं ससागराम् । द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रीं प्रयतः शुचिः । यस्तस्य दुष्कृतं नास्ति पूर्वतः परतोऽपि वा । यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः । गायत्री ध्यानपूतस्य कलां नार्हति षोडशीम् । एवं किल्विष- युक्तस्तु विनिर्दहति पातकम् । उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः” । तस्य देहापवित्रताहेतुः यथा “यथा देहापवित्रत्वं विग्रादीनां यतो भवेत् । देवर्षे! शृणु तत् सर्वं नराणामानुपूर्विकम् । जातके मृतके- ऽस्नाते जलौकाभिः क्षते तथा । अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्मसु । अपूततनूरुत्सर्गे नरो मूत्र पूरीषयोः । अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु । रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते । विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः । भुक्तवस्त्राननोच्छि- ष्टेऽपवित्रः कृतषेथुने । शयने ब्राह्मणादीनां शरीरं क्षुरकर्मणि । ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम् । बपुरप्रयतं पूजादानहोमजपादिषु । धूमोद्गारे वमौ आद्धपतितान्नादिभोजने । तथा च रेतस्खलने मत्या, देहापवित्रता । अपवित्रं द्विजातीनां वपुः स्याद्राहु- दर्शने । गर्हितदानग्रहणे पतिते पातकादिभिः । अ- शौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज! । सर्व- वर्णाश्रमादोनां तनोः सन्ध्यादिकर्मसु” पाद्मोत्तरञ्चण्डे १०९ अ० । २ मन्त्रेतरवेदभागे न० ऋ० भाष्योपोद्घाते आशङ्का- पूर्वकं तल्लक्षणमुक्तं यथा “तत्र ब्राह्मणस्य लक्षणं नास्ति । कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्य- भागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्य- त्वात् । पूर्वोक्तमन्त्रभाग एकः । भागान्तराणि च कानिचित् पूर्वैरुदाहर्तुं संगृहीतानि “हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुरुकिल्पो व्यवर्धारणकल्पनेति” । “तेन ह्यन्नं क्रियत” इति हेतुः १ । “तद्दघ्नी दधित्वमिति” निर्वचनम् २ । “अमेध्या वै माषाः इति निन्दा ३ । “वायुर्वे क्षेपिष्ठेति” प्रशंसा ४ । “तद्व्यचि- कित्सा जुहवानी ३ मा हौषा ३ मिति” संशयः ५ । “यज- मानेन सम्मितौदुम्भरी भवतीति” विधिः ६ । “माषानेव मह्यं पचन्तीति” परकृतिः ७ । “पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः ८ । “यावतोऽश्वान् परिगृह्णीयात्ता- वतो वारुणांश्चतुष्कपालान्निर्वपेदिति” विशेषावधारण- कल्पना ९ । एवमन्यदप्युदाहार्य्यम् । न च हेत्वादीना- मन्यतमं ब्राह्मणमिति लक्षणम् । मन्त्रोष्वपि हेत्वादि- सद्भावात् । “इन्दवो वा मुशन्ति हीति” हेतुः । “उदा- निषुर्महीरिति तस्मादुदकमुच्यत इति” निर्वचनम् । “मोघमन्नं विन्दते अप्रचेताः” इति निन्दा । “अग्निर्मूर्द्धा दिवः ककुदिति” प्रशंसा । “अधः स्विदासी ३ दुपरि स्विदासी ३ दिति” संशयः । “वसन्ताय कपिञ्जलानालभेत” इति विधिः । “सहस्रमयुतं ददाविति” परकृतिः । “यज्ञेन यज्ञमयजन्त देवाः” इति पुराकल्पः । इतिकरणबहुलं ब्राह्मणमिति चेत् न “इत्यददा इत्ययजथा इत्यपच इति “ब्राह्मणो गायेत्” इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः । इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेत् न “राजा चिदां भगं भक्षीत्याह यो मायातुं यातुधाने- त्याह यो वा रक्षः । “शुचिरस्मीत्याहे श्रनयोर्मन्त्रयो- रतिव्याप्तेः । आख्यायिकारूपं ब्राह्मणमिति चेत् न यमयमीसंवादसूक्तादावतिव्याप्तेः । तस्मान्नास्ति ब्राह्मण- लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्वावेव वेद- भागावित्यङ्गीकारात् मन्त्रलक्षणस्य पूर्बमभिहितत्वादव- शिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति” ।



Correction: