वाचस्पत्यम्
व्राह्मणक is an alternate of ब्राह्मणक. ब्रा(व्रा)ह्मणक || पु० कुत्सितार्थे कन् । कुत्सितब्राह्मणे । ब्राह्मण- कर्माण्युक्त्वा “एवमुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत्” भा० शा० २७१ अ० उक्तेः । ब्राह्मणेन जातिमात्रेण कायति कै—क । २ ब्राह्मणकृत्यरहिते विप्रवंश्ये । संज्ञायाम् कन् । आयुधजीविव्राह्मणप्रधाने ३ देशे सि० कौ० ततः कोपधत्वात् छ । ब्राह्मणकीय तत्सम्बन्धिनि त्रि० ।