वाचस्पत्यम्
व्राह्म्यमुहूर्त्त is an alternate of ब्राह्म्यमुहूर्त्त. ब्रा(व्रा)ह्म्यमुहूर्त्त || पु० ब्रह्मा देवतास्य ष्यञ् टिलोपः कर्म० णरुणोदयात् प्राग्वर्त्तिनि “रात्रेश्च पश्चिमे यामे मु- हूर्त्ती ब्राह्म्य उच्यते” “रात्रेश्च पश्चिमे यामे मुहूर्त्तो यस्तृतीयक । स ब्राह्म्य इति विख्यातो विहितः सप्रबो धने” आ० त० सुमन्तुना उक्ते दण्डद्वयात्मके काले ।