वाचस्पत्यम्
व्री || गतौ दिवा० आ० सक० अनिट् । व्रीयते अव्रेष्ट । ओदित् व्रीणः ।
वाचस्पत्यम्
व्री || वृतौ क्र्या० प्वा० पर० सक० अनिट् । व्रि(व्री)णाति अव्रैषीत् ।
शब्दकल्पद्रुमः
व्री || ग गि वृत्याम् । इति कविकल्पद्रुमः ॥ (क्र्या०- प्या०-पर०-सक०-अनिट् ।)
रेफोपधः । गि, व्रिणाति । व्रीणः वीणिः । ग, यो व्रीणाति जय- श्रियं रणमुखे । व्रीतः व्रीतिः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
व्री || य ङ ओ गतौ । वृत्याम् । इति कविकल्पद्रुमः ॥ (दिवा० आत्म०-सक०-अनिट् ।)
रेफोपधः ॥ य ङ, व्रीयते । ओ, व्रीणः । इति दुर्गादासः ॥