संस्कृत-शब्दकोशः

व्ली शक

वाचस्पत्यम्

||‍ न० शी—ड । १ मङ्गले त्रिका० । २ महादेवे, ३ शस्त्रे च पु० शब्दर० ।


शब्दकल्पद्रुमः

शं || [म्] व्य, कल्याणम् । (यथा, राजेन्द्रकर्ण- पुरे । ५१ । “यः कीर्त्तौ भवतो वतो नृपगुणैर्यः शंतनुः शन्तनुः ॥”)
शुभम् । शास्त्रम् । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

शं || क्ली शुभम् । इति त्रिकाण्डशेषशब्दरत्ना- वल्यौ ॥ (यथा, देवीभागवते । ३ । १८ । ७ । “न च हर्म्ये वने शं मे दीर्घिंकायां न पर्व्वते ॥”)


शब्दकल्पद्रुमः

|| तालव्यशकारः । म तु शवर्गीयप्रथमवर्णः । व्यञ्जनत्रिंशद्वर्णश्च । अस्योच्चारणस्थानं तालु । इति तन्त्रव्याकरणे ॥ (तथा च शिक्षायाम् । १७ । “कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजावुपू ॥”)
अस्य स्वरूपं यथा, —
“शकारं परमेशानि ! शृणु वर्णं शुचिस्मिते ! । रक्तवर्णप्रभाकारं स्वयं परमकुण्डली ॥ चतुर्व्वर्गप्रदं देवि ! शकारं ब्रह्मविग्रहम् । पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये ! ॥ रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा । त्रिशक्तिसहित वर्णमात्मादितत्त्वसंयुतम् ॥” इति कामधेनुतन्त्रम् ॥ * ॥
(वङ्गीयवर्णमालायाम् ।)
तल्लेखनप्रकारो यथा, “कुञ्चिता वामतो दक्षगता च गोकृतिस्त्वधः । पुनरूर्द्ध्वगता तालु वह्निचन्द्रदिवाकराः । मात्रा भवानी विज्ञेया ध्यानमस्य प्रचक्षते ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥
तद्वाचकानि यथा, —
“शः सव्यश्च कामरूपो कामरूपो महामतिः । सौख्यनामा कुमारोऽस्थि श्रोकण्ठो वृषकेतनः ॥ वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी । मृत्युर्देवो महालक्ष्मीमहेन्द्रः कुलकौलिनी ॥ बाहुर्हंसो वियद्वक्त्रं हृदनङ्गाङ्कुशः खलः । वामोरुः पुण्डरोकात्मा कान्तिः कल्याण- वाचकः ॥” इति योगिनीतन्त्रे ३ भागे ७ पटले वर्णाभिधानम् ॥ (काव्यादावस्य प्रथमप्रयोगे सुखं फलम् । यथा, वृत्तरत्नाकरटीकायाम् । “शः सुखं सस्तु खेदम् ॥” धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमः । “ — वो वृतादिः श्तुदादिकः ॥” एतेन तुदौ ञश् व्यथे तुदति इति स्यात् ॥)


शब्दकल्पद्रुमः

शः || पुं, शिवः । शस्त्रम् । इति शब्दरत्नावली ॥



Correction: