वाचस्पत्यम्
शकल || पु० न० शक—कलक् । १ खण्डे २ एकभागे । ३ त्वचि ४ वल्कले मेदि० ५ शल्के (आँस) च न० ।
शब्दकल्पद्रुमः
शकलं || क्ली (शक्नोतीति । शक् + “शकिशम्यो- र्नित् ।” उणा० १ । १११ । इति कलः ।)
त्वक् । खण्डम् । (यथा, रघुः । २ । ४६ । “अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्व्वन् ॥”)
रागवस्तु । वल्कलम् । इति मेदिनी ॥ शल्कम् । आँश इति भाषा । इति शकलिन्शब्ददर्शतात् ॥
शब्दकल्पद्रुमः
शकलः || पुं, क्ली, (शक् + कलः ।)
एकदेशः । (यथा, मनुः । ६ । ८८ । “प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥”)
खण्डम् । यथा, —
“भित्तं शकलखण्डे वा पुंस्यर्द्धोऽर्द्ध्वं समेऽंशके ॥” इत्यमरः ॥ (यथा, मनुः । १ । १३ । “ताभ्यां स शकलाभ्याञ्च दिवंभूमिञ्चनिर्म्ममे ॥”)