वाचस्पत्यम्
शकुन्ति || पु० शक—उन्ति । १ पक्षिमात्रे अमरः । २ भासप- क्षिणि उणादिकोषः ।
शब्दकल्पद्रुमः
शकुन्तिः || पुं, (शक्नोति उत्पतितुमिति । शक + उन्तिः ।)
पक्षिमात्रम् । इत्यमरः ॥ (यथा, ऋग्वेदे । २ । ४२ । ३ । “अवक्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते ! ॥”)
भासपक्षी । इत्युणादिकोषः ॥