संस्कृत-शब्दकोशः

शकुन्ति शकुलगण्ड

शकुल

वाचस्पत्यम्

शकुल ||‍ पुंस्त्री० शक—उलच् । मत्स्यभेदे (शौल) अमरः । स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

शकुलः || पुं, (शक्नोति गन्तुं वेगेनेति । शक + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरच् । रस्य लः ।)
मत्स्यविशेषः । इत्यमरः ॥ शौल इति भाषा ॥ (यथा, महाभारते । १२ । १३७ । ३ । “नातिगाधे जलाधारे सुहृदः शकुलास्त्रयः । प्रभूतमत्स्ये कौन्तेय ! बभूवुः सहचारिणः ॥”)
अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । ग्राहि- त्वम् । पित्तामजित्त्वम् । गुरुत्वञ्च । इति राज- वल्लभः ॥



Correction: