संस्कृत-शब्दकोशः

शक्ति शक्तिग्राहक

शक्तिग्रह

वाचस्पत्यम्

शक्तिग्रह ||‍ पु० ६ त० । शक्तेः अर्थबोधकतारूपवृत्तेर्ज्ञाने ।


शब्दकल्पद्रुमः

शक्तिग्रहः || पुं, (शक्तिं गृह्णातीति । शक्ति + ग्रह + “शक्तिलाङ्गुलाङ्कुशेति ।” ३ । २ । ९ । इत्यस्य वार्त्तिकोक्त्या अच् ।)
शिवः । कार्त्तिकेयः । शक्तिं गृह्णाति यः इत्यर्थे शक्तिशब्दपूर्व्वकग्रह- धातोरल्प्रत्ययेन निष्पन्न इति केचित् ॥ (शक्ते- र्ग्रहो ग्रहणम् ।)
शब्दशक्तिज्ञानम् । यथा । “अस्मात् शब्दात् अयमर्थो बोद्धव्य इतीश्वरेच्छा शक्तिरिति तार्किकाः । तज्ज्ञानन्तु व्याकरणा- दिभ्यः । अतएव । ‘शक्तिग्रहं व्याकरणोपमान- कोषाप्तवाक्याद्ब्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्व्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥’ इति प्राञ्चः ।” इति दुर्गादासः ॥



Correction: