वाचस्पत्यम्
शक्तिग्राहक || पु० शर्क्ति गृह्लाति ग्रह—ण्वुल् । १ कार्त्ति- केये शक्तिं ग्राहयति योधयति ग्रह—णिच् ण्वुल् । “शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्यात् व्यवहार- तश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः” इत्युक्ते शक्तिबोधके २ हेतौ । शक्तिग्रहप्रका- रश्च शब्दशक्तिप्रकाशिकायां दर्शितो यथा “सङ्केतस्य ग्रहः पूर्व वृद्धस्य व्यवहारतः । पश्चादेवो- पमानाद्यैः शक्तिधीपूर्वकैरसौ” । प्रथमं षदेषु सङ्केत- ग्रहोवृद्धस्य व्युत्न्नस्य शब्दाधीनध्यवहारादेव बालानां तथाहि गामानयेति केनचिन्निपुणेन नियुक्तः कश्चन व्युत्पन्नस्तद्वाक्यतोऽर्थं प्रतीत्य गवानयनं करोति तच्चो- पलभमानो बाल इदं गवानर्यनं स्वनोचरप्रवृत्तिजन्यं चेष्टात्वान्मदीयस्तनपानादिवदित्यनुमाय सा गवानयन- प्रवृत्तिः स्वविषयधर्मिककार्य्यताज्ञानजन्या प्रवृत्तित्वा- न्निजप्रवृत्तिवदिति प्रवृत्तेर्गवानयनधर्मिककार्य्यताज्ञान- जन्यत्वं प्रसाध्य गवानयनगोचरतज्ज्ञानमसाधारण- हेतुकं कार्य्यत्वाद्धटवदित्येवमनुमिन्वानः समुपस्थितत्वा- ल्लाघवाच्च श्रुतं वृद्धवाक्यमेव तदसाधारणकारणत्वेना- वधारयति तदनन्तरञ्च गवादिपदानां प्रत्येकमावापो- नापेन गवादिबुद्धौ जनकत्वमवगत्यानतिप्रसक्तये गवादि- सङ्केतस्य तदनुकूलत्वं कल्पयति । पश्चात्तु क्वचिदुप- मानाच्छक्तिग्रहो यथा गवादिपदशक्तिधीसाचिष्येन गोसादृश्यातिदेशवाक्यात् गवयपदवाच्यत्वबोधोत्तरं गव- यत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् गवयो गवयपदवाच्य इत्याकारः । क्वचिच्च व्याकरणात् यथा कर्मणि द्वितीया कर्त्तरि परस्मैपदमित्यानुशासनात् कर्मत्वादौ द्वितीयादेः । क्वचित् कोषादपि यथा “गुणे शुक्लादयः पुंसि गुणिलि- ङ्गस्तु तद्वति” । “सुशीमः शिशरो जडः । चूर्णे क्षोदः समुत्पिञ्जलौ भृशमाकुले” इत्यादि कोषेभ्यः श्वैत्यादौ शुक्लादिशब्दस्य । क्वचिद्विरणादपि यथा पचति पाकं क- रोतीति तुल्यार्थकवाक्यात् कृत्यादौ तिङादेः । क्वचित् प्रसिद्धार्थशब्दसामानाधिकरण्यादपि यथा नीरूपस्पर्श- वान् वायुर्निस्पर्शमूर्त्तिमन्मन इत्यादौ रूपशून्यस्पर्शवदा- दिषु वाय्वादिपदस्य । वायुत्वादिजातेरतीन्द्रियत्वेन स्वरूप- तस्तदवच्छिन्नस्यानुपस्यित्या तत्र शक्तिग्रहायागात् यथा वा “सत्कृत्यालङ्कृतां कन्यां ददानः कृकुदः स्मृतः” इत्या- दावुक्तरीत्या कन्यादात्रादिषु कुकुदादिपदस्य । सहकार । तरौ मघुरं रौति पिक इत्यादिकन्तु न युक्तपमुक्तक्रमेण शक्तिग्रहस्योदाहरणं तिङर्थे धर्मिण्यभेदेन नामार्थान्व- वस्याव्युत्पन्नत्वात् प्रत्यक्षसिद्धकौकिलत्वजात्यवच्छिन्न एव लाघवेन पिकशब्दस्म शक्त्यवच्छेदाच्च । क्वचिद्वाक्यशेषा- दपि यथा यवपदस्य कङ्गुप्रभृतौ स्लेच्छानां दीर्घशूके च शिष्टानां घ्यवहारादेकमात्रशक्तेः परिच्छेत्तुमशक्य- त्वात् नानार्थत्वस्य चान्याय्यत्वात् यवमयश्चरुर्भवतीति- श्रुतौ यवपदस्यार्थसन्देहे “वसन्ते सर्वशस्यानां जायते पत्रशातनम् । सोदमानास्तु तिष्ठन्ति यवाः कणिशशालिन” ः इति विध्यर्थाकाङ्क्षया प्रवर्त्त मानाद्वाक्यशेषाद्दीर्घशूक एव यवपदस्य शक्तिग्रहः । यथा वा स्वाराज्यकामोऽग्निष्टो- मेन यजेतेत्यादिविधिशेषीभूतेभ्यः “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अमिलामोपनीतं च तत्सुखं खःपदास्पदम” इत्यादिवाक्येभ्यः स्वरादिपदस्य” ।
शब्दकल्पद्रुमः
शक्तिग्राहकः || पुं, व्याकरणोपमानादिः । शक्ति- ग्रहीता च । शक्तिं ग्राहयति गृह्णाति च इत्यर्थे ञ्यन्ताञ्यन्तग्रहधातोर्णक(ण्वुल्)प्रत्ययेन निष्पन्नमेतत् ॥