वाचस्पत्यम्
शक्तिधर || पु० शक्तिं धरति घृ—अच् । १ कार्त्तिकेये २ सामर्थ्य- धरे त्रि० “शक्तिधरः कुमारः” इति रघुः । भृ—क्विप् ६ त० । शक्तिभृदादयोऽप्यत्र ।
शब्दकल्पद्रुमः
शक्तिधरः || पुं, (धरतीति । धृ + अच् । शक्तेर्धरः ।)
कार्त्तिकेयः । इत्यमरः ॥ (यथा, हरिवंशे । ७३ । ९ । “बलेन वपुषा चैव बाल्येन चरितेन च । स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः ॥”)
शक्तिधारके, त्रि ॥ (यथा, बृहत्संहितायाम् । ५८ । ४१ । “स्कन्दः कुमाररूपः शक्तिधरो वर्हिकेतुश्च ॥”)