संस्कृत-शब्दकोशः

शक्रद्रुम शक्रध्वज

शक्रधनुस्

वाचस्पत्यम्

शक्रधनुस् ||‍ न० ६ त० । मेथलाञ्छने धनुराकारे सूर्य्य- किरणसम्पर्कजे पदार्थभेदे (रामधनुक) अमरः ।


शब्दकल्पद्रुमः

शक्रधनुः || [स्] क्ली, (शक्रस्य धनुः ।)
इन्द्रधनुः । इत्यमरः ॥ गण्डी इति रामधनुक इति च भाषा ॥ “इन्द्रायुधं शक्रधनुः कौशिकायुधमित्यपि । ऐरावतं रोहितं स्यादवक्रं यदि तद्धनुः ॥” इति शब्दरत्नावली ॥ (यथा, महाभारते । ५ । ५६ । ११ । “यथाकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किन्नु तत् ॥”)



Correction: