संस्कृत-शब्दकोशः

शक्वर शङ्क

शक्वरी

शब्दकल्पद्रुमः

शक्वरी || स्त्री (शक्नोति कर्म्माणि कर्त्तुमिति । शक + “स्नामदिपदीति ।” उणा० ४ । ११२ । इति वणिप् । “वनो रच ।” ४ । १ । ७ । इति ङीब्रौ ।)
अङ्गुली । इति सिद्धान्तकोमुद्या- मुणादिवृत्तिः ॥ नदीविशेषः । मेखला । छन्दो- भेदः । इति मेदिनी ॥ स तु चतुर्द्दशाक्षरपाद- वृत्तम् । तद्भेदा यथा । असंवाधा १ वसन्त- तिलकम् २ सिंहोद्धता ३ अपराजिता ४ प्रह- रणकलिका ५ वासन्ती ६ लोला ७ नान्दीमुखी ८ । इति छन्दोमञ्जरी ॥ (ऋक् । यथा, ऋग्- वेदे । १० । ७१ । ११ । “ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्त्रं त्वो गायति शक्वरीषु ॥” * ॥
शक्नोति क्षीरादिप्रदानेन तद्बन्तं प्रीणयितुं स्पर्शनेन वा पापमपनेतुमिति । शक + वनिप् । ङीब्रौ च । गौः । इति निघण्टुः । २ । ११ ॥)



Correction: