वाचस्पत्यम्
शङ्करावास || पु० ६ त० । १ कैलासाचले । शङ्करस्यावास इव शुभ्रत्वात् । २ कर्पूरे राजनि० ।
शब्दकल्पद्रुमः
शङ्करावासः || पुं, (शङ्करस्य आवास इव शुक्ल- त्वात् ।) कर्पूरभेदः । इति राजनिर्घण्टः ॥ (शङ्करस्य महादेवस्य आवासः ।) कैलासश्च ॥