वाचस्पत्यम्
शङ्खक || न० शङ्गस्य विकारः वुन् । १ शङ्खजाते वलयाकारे पदार्थे मेदिनि० २ शिरोरोगे पु० तस्य लक्षणादि यथा “पित्तरक्तानिलादुष्टाः शङ्खदेशे विमूर्च्छिताः । तीव्र रुग्दाहरोगं हि शोथं कुर्वन्ति दारुणम् । सशिरो- विषवद्वेगान्निरुध्याशु गलं तथा । त्रिरात्राज्जी- वितं हन्ति शङ्खको नाम नामतः । त्र्यहाज्जोवि- तभैषज्यं प्रत्याख्येयस्य कारयेत्” । पित्तरक्तानिला इत्यत्र कफोऽपि योज्यः “कृतानुतापः कफपित्तरक्तै- रिति” सुश्रुतवचनात् । विमूर्च्छिताः प्रवृद्धाः त्रिरात्रात् त्रिरात्रमध्ये मारयति” भावप्र० ।
शब्दकल्पद्रुमः
शङ्खकं || क्ली बलयः । इति मेदिनी ॥
शब्दकल्पद्रुमः
शङ्खकः || पुं, क्ली, (शङ्ख + स्वार्थे कन् ।)
कम्बुः । शिरोरोगे, पुं । इति मेदिनी ॥ तस्य लक्षणादि यथा, — शङ्खकमाह । “पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः । तीव्ररुद्गाहरागं हि शोथं कुर्व्वन्ति दारुणम् ॥ स शिरो विषवद्बेगान्निरुध्याशु गलं तथा । त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः । त्र्यहाज्जीवति भैषज्यं प्रत्याख्येयस्य कारयेत् ॥” पित्तरक्तानिलाः अत्र कफोऽपि योज्यः । कृतानुतापः कफपित्तरक्तैरिति सुश्रुतवचनात् । विमूर्च्छिताः प्रवृद्धाः । त्रिरात्रात् त्रिरात्रमध्ये मारयति । इति भावप्रकाशः ॥ अस्य चिकित्सा शिरोरोगशब्दे द्रष्टव्या ॥ (ललाटास्थि । यथा, याज्ञवल्क्यः । ३ । ९० । “द्बौ शङ्खकौ कपालानि चत्रारि शिरसस्तथा । ऊरः सप्तदशास्थीनि पुरुषस्थास्थिसंग्रहः ॥”)