संस्कृत-शब्दकोशः

शङ्खनखा शङ्खप्रस्थ

शङ्खपुष्पी

वाचस्पत्यम्

शङ्खपुष्पी ||‍ स्त्री शङ्ख इव पुष्पमस्याः ङीष् । (शङ्खाली) वृक्षे राजनि० । “शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्या कृमिविषापहा” । राजवल्लभः “शङ्खपुष्पी सरा मेध्या कृष्णा मानसरोगनुत् । रसायनी कषायोष्णा स्मृति- कान्तिवलाग्निदा । दोषापस्मरभूतासृक्कुष्ठक्रमिविष- प्रणुतः” भावप्र० ।


शब्दकल्पद्रुमः

शङ्खपुष्पी || स्त्री (शङ्खवत् पुष्पं यस्याः । ङीष् ।)
वृक्षविशेषः । शङ्खाहुली इति डानकुनी इति च भाषा । तत्पर्य्यायः । सुपुष्पी २ शङ्खाह्वा ३ कम्बुमालिनी ४ पीतपुष्पी ५ कम्बुपुष्पी ६ मेध्या ७ मलविनाशिनी ८ किरिटी ९ शङ्खकुसुमा १० भूलग्ना ११ शङ्खमालिनी १२ । अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । मेधास्वर- कारित्वम् । ग्रहभूतादिदोषनाशित्वम् । वशी- करणसिद्धिदातृत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्या क्रिमिविषा- पहा ॥” इति राजवल्लभः ॥ अन्न्यच्च । “शङ्खपुष्पी तु शङ्खाह्वा मङ्गल्या कुसुमापि च । शङ्खपुष्पी सरा मेध्या वृष्या मानसरोगनुत् ॥ रसायनी कषायोष्णा स्मृतिकान्तिबलाग्निदा । दोषापस्मारभूतासृक्कुष्ठक्रिमिविषप्रणुत् ॥” इति भावप्रकाशः ॥



Correction: