वाचस्पत्यम्
शची is an alternate of शचि. शचि(ची) || स्त्री शच—इन् वा डीप् । १ इन्द्रपत्न्याम् अमरः । २ करणान्तरे मेदि० ।
शब्दकल्पद्रुमः
शची || स्त्री (शचि + कृदिकारादिति ङीष् ।)
इन्द्रपत्नी । तत्पर्य्यायः । पुलोमजा २ इन्द्राणी ३ । इत्यमरः ॥ शचिः ४ सची ५ सचिः ६ । इति भरतः ॥ पूतक्रतायी ७ पौलोमी ८ । इति जटा- धरः ॥ माहेन्द्री ९ जयवाहिनी १० ऐन्द्री ११ शतावरी १२ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । २३ । “उमावृषाङ्कौ शरजन्मना यथा यथा जयजन्तेन शचीपुरन्दरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥”)
शतमूली । स्त्रीकरणान्तरम् । तत्तु विष्टिकरण- मिति केचित् ॥ इति मेदिनी ॥ (कर्म्म । इति इति निघण्टुः । २ । १ ॥ यथा, ऋग्वेदे । ८ । ३२ । १५ । “न किरस्य शचीनां नियन्ता सुनृतानाम् ॥” प्रज्ञा । इति निघण्टुः । ३ । ९ ॥ वाक् । इति च निघण्टुः । १ । ११ ॥)