संस्कृत-शब्दकोशः

शची शट

शचीपति

वाचस्पत्यम्

शचीपति ||‍ पु० ६ त० । इन्द्रे अमरः । शचीभर्त्त्रादयोऽप्यत्र ।


शब्दकल्पद्रुमः

शचीपतिः || पुं, (शच्याः पतिः ।)
इन्द्रः । इत्यमरः ॥ (यथा, मार्कण्डेये । १५ । ७० । “यदि जानासि धर्म्म त्वं त्वं वा शक्र शचीपते । मम यावत् प्रमाणन्तु शुभं तद्बक्तुमर्हतः ॥” कर्म्मपालके, त्रि । यथा ऋग्वेदे । ७ । ६७ । ५ । “शक्तं शचीपती शचीभिः ॥” “हे शचीपती शचीति कर्म्मनाम कर्म्मणां पालकौ ।” इति तद्भाष्ये सायणः ॥)



Correction: