वाचस्पत्यम्
शठ is an alternate of शट. शट(ठ) || श्लाघायां चु० आ० सक० सेट् । शाट(ठ)यत अशी- शट(ठ)त ।
वाचस्पत्यम्
शठ || आलस्ये चु० पर० अक० सेट् । शाठयति ते अशीशठत् त ।
वाचस्पत्यम्
शठ || दुष्टवचने अद० चु० उभ० सक० सेट् । शठयति ते अशशठत् त
वाचस्पत्यम्
शठ || न० शठ—अच् । १ तगरे २ कुङ्कुमे ३ लौहे च राजनि० । ४ धूस्तूरे ५ मध्यस्थपुरुषे च पु० । “प्रियं वक्ति पुरो- ऽन्यत्र विप्रियं कुरुतं भृशम् । व्यक्तापराधचेष्टश्च शठो- ऽयं कथितो बुधैः” विष्णपु० उक्ते ६ धूर्त्ते त्रि० मेदि० ७नायकभेदे पु० तल्लक्षणं यथा “शठाऽयमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रि- यमन्यत्र गूढमाचरति” सा० द० ।
वाचस्पत्यम्
शठ || बधे सक० कैतवे क्लेशे च अक० भ्वा० पर० सेट् । शठति अशाठीत् अशठीत् ।
शब्दकल्पद्रुमः
शठ || क आलस्ये । गत्यसंस्कृतसंस्कृते । इति कवि- कल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।)
क, शाठयति वृद्धः क्रियासु मन्दः स्यादित्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शठ || क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-अक०-सेट् ।)
क ङ, शाठयते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शठं || क्ली (शठ + अच् ।)
तगरम् । कुङ्कुमम् । लोहम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
शठ || त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।)
शठयति नीचः कुत्सितं वदतीत्यर्थः । रमानाथस्तु सम्यग्भाषणे इति मत्वा शठयति सम्यग्वदती- त्यर्थ इत्याह । सम्यग्भाषणे इति जौमराः । समग्भावे इत्येके । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शठः || पुं, मध्यस्थपुरुषः । धूर्त्तः । (यथा, मनुः ॥ ४ । ३० । “पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”)
धुस्तूरः । इति मेदिनी ॥ शठस्य लक्षणम् ॥ यथा, —
“प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥” इति विष्णुपुराणे । ३ । १८ । २१ । श्लोकटीका ॥ चतुर्व्विधपत्यन्तर्गतपतिविशेषः । तस्य लक्षणम् । कामिनीविषयकपटपटुः । यथा, —
“मौलौ दाम विधाय भालफलके व्यालिख्य पत्रावलीं केयूरं भुजयोर्निधाय कुचयोर्व्विन्यस्य मुक्ता- स्रजम् । विश्वासं समुपार्ज्जयन् मृगदृशः काञ्चीनिवेश- च्छला- न्नीवीग्रन्थिमपाकरोति मृदुना हस्तेन वाम- भ्रुवः ॥” इति रसमञ्जरी ॥ (वृष्णिवंशीयविशेषः । यथा, हरिवंशे । भविष्य- पर्व्वणि । २ । ३ । “बलभद्रं शिनेः पुत्त्रं हार्द्दिक्यं शठसारणौ ॥”)
शब्दकल्पद्रुमः
शठ || वधक्लेशकैतवे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
क्लेशो दुःखानुभवः । कैतवं मित्रवञ्चनम् । शठति खलः साधुं वञ्चयतीत्यर्थः । इति दुर्गादासः ॥