संस्कृत-शब्दकोशः

शठ शठम्बा

शठता

वाचस्पत्यम्

शठता ||‍ स्त्री शठस्य भावः तल् । शाठ्ये वञ्चनायाञ्च ।


शब्दकल्पद्रुमः

शठता || स्त्री (शठ + तल् ।)
शठस्य भावः । तत्पर्य्यायः । माया २ शाठ्यम् ३ कुसृतिः ४ निकृतिः ५ । इति हेमचन्द्रः ॥ अन्यच्च । “अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च । कूटं कल्कं छलं छद्म मिषकैरवकैतवम् ॥ अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा । हिंसाफले चतुष्कं स्यात् शाठ्यपर्य्याय ईरितः ॥ पूर्व्वः कपटपर्य्यायः फले वञ्चनमात्रके । उभयोरेकपर्य्याय इति केचित् प्रचक्षते ॥” इति शब्दरत्नावली ॥



Correction: