संस्कृत-शब्दकोशः

शण्ढ शतक

शत

वाचस्पत्यम्

शत ||‍ न० एक० व० शो—डतच् । १ स्वनामख्यातसख्यायाम् २ बहुसंख्यायां ३ तत्संख्याते च । स्वार्थे क । तत्रैव न० शतवाचकशब्दाश्च धार्त्तराष्ट्रः१ शतभिषा तारा२ पुरु- षायुषम्३ रावणाङ्गुलिः४ पद्मदलं५ इन्द्रयज्ञः६ अब्धियो- जनम्७” कविकल्पलता ।


शब्दकल्पद्रुमः

शतं || क्ली (दश दशतः परिमाणमस्येति । “पंक्तिविंशतित्रिंशदिति ।” ५ । १ । ५९ । इति तः । दशाणां शभावश्च निपात्यते ।)
दशगुणित- दशसङ्ख्या । एकशओ इति हिन्दीभाषा । (यथा, शान्तिशतके । “निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्रा- धिपः ॥”)
तत्पर्य्यायः । दशतिः २ । इति पुराणम् ॥ तद्वाचकानि । धार्त्तराष्ट्रः १ शतभिषातारा २ पुरुषायुषः ३ रावणाङ्गुलिः ४ पद्मदलम् ५ इन्द्रयज्ञः ६ अब्धियोजनम् ७ । इति कवि- कल्पलता ॥ (बहु । इति निघण्टुः । ३ । १ ॥ यथा, ऋग्वेदे । ८ । १ । ५ । “वज्रिवो न शताय शतामघ ।” “शताय बहुनामैतत् अपरि- मिताय ।” इति तद्भाष्ये सायणः ॥)



Correction: