वाचस्पत्यम्
शतक || त्रि० शतं परिमाणमस्य लन् । १ शतसंख्यायुक्ते ।
शब्दकल्पद्रुमः
शतकः || त्रि (शतं परिमाणमस्य । शत + “संख्याया अतिशदन्तायाः कन् ।” ५ । १ । २२ । इति कन् ।)
शतसंख्याविशिष्टः । यथा । शान्ति- शतकामरुशतकादिः । शतशब्दात् कप्रत्ययेन निष्पन्नमेतत् । (यथा, मार्कण्डेये । ४६ । ३० । “सन्ध्यासन्ध्यांशकश्चैव शतकौ समुदाहृतौ ॥”)
स्वार्थे के शतकञ्च ॥