वाचस्पत्यम्
शतघ्नी || स्त्री शतं हन्ति हन—टक् । १ अस्त्रभेदे “अयःकण्ट- कसंछन्ना शतघ्नी महती शिला” विजयरक्षितः । २ वृश्चिकाल्यां ३ करञ्जे च मेदि० ।
शब्दकल्पद्रुमः
शतघ्नी || स्त्री (शतं हन्तीति । हन + टक् । ङीप् ।)
शस्त्रभेदः । अस्य लक्षणम् । यथा, —
“अयःकण्टकसंछन्ना शतघ्नी महती शिला ।” इति विजयरक्षितः ॥ “दुर्गञ्च परिखोपेतं चयाट्टालकसंयुतम् । शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥ गोपुरं सकवाटञ्च तत्र स्यात् सुमनोहरम् । सपताकं गजारूढो येन राजा विशेत् पुरम् ॥” इति मात्स्ये राजधर्म्मे दुर्गसम्पत्तिर्नाम १९१ अध्यायः ॥ * ॥
(यथा, रघुः । १२ । ९५ । “अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्यैव कूटशाल्मलिमक्षिपत् ॥” “अथ रक्षो रावणः अयसः शङ्कुभिः कीलै- श्चितां कीर्णां शतघ्नीं लौहकण्टककीलितयष्टि- विशेषाम् । शतघ्नी तु चतुस्ताला लोहकण्टक- सञ्चिता । यष्टिः — ॥ इति केशवः ॥” इति तट्टीकायां मल्लिनाथः ॥)
वृश्चिकाली । करञ्जकः । इति मेदिनी ॥ गलरोगविशेषः । अस्य निदानलक्षणचिकित्साः रोहिणीशब्दे द्रष्टव्याः ॥