शब्दकल्पद्रुमः
शतपत्रं || क्ली (शतं पत्राणि यस्य ।)
पद्मम् । इत्य- मरः ॥ (यथा, महाभारते । ३ । ६८ । २० । “इमामसितकेशान्तां शतपत्रायतेक्षणाम् ॥”)
शब्दकल्पद्रुमः
शतपत्रः || पुं, (शतं पत्राणि पक्षा यस्य ।)
मयूरः । सारसः । दार्व्वाघाटपक्षी । इति मेदिनी ॥ राजकीरः । नुरी इति भाषा । इति हेम- चन्द्रराजनिर्घण्टौ ॥ (यथा, महाभारते । ३ । १०८ । ८ । “मयूरैः शतपत्रैश्च जीवञ्जीवककोकिलैः ॥”)