वाचस्पत्यम्
शतभिषज् || स्त्री शतं भिषज इव ताराः यत्र । शततारा- त्मके अश्विन्यादिषु चतुर्विंशे नक्षत्रे । शतभिषाप्यत्र स्त्री
शब्दकल्पद्रुमः
शतभिषक् || [ज्] स्त्री, (शतं भिषज इव तारा यत्र ।)
शतभिषानक्षत्रम् । इति शब्दरत्ना- वली ॥ (यथा, बृहत्संहितायाम् । ९ । ३४ । “शतभिषजि शौण्डिकाना- मजैकपे द्यूतजीविनां पीडा ॥” शतभिषजि जात, त्रि । अत्र “वत्सशाला- भिजिदश्वयुक्छतभिषजो वा ।” ४ । ३ । ३६ । इति जातार्थप्रत्ययस्य लुक् ॥)