शब्दकल्पद्रुमः
शतभिषा || स्त्री अश्विन्यादिसप्तविंशतिनक्षत्रान्त- र्गतचतुर्विंशनक्षत्रम् । तत्पर्य्यायः । शतभिषक् २ । इति शब्दरत्नावली ॥ अस्या आकृतिर्मण्डला- कारशततारामयी । यथा, —
“मण्डलाभशततारकाकुलै- र्मध्यभाजि नभसः प्रचेतसि । बाणशैलधरणीमिताः कलाः शारदेन्दुमुखि तावुरेर्ययुः ॥” दं २ । पं ५५ । इति कालिदासकृतरात्रिलग्नमाननिरूपणम् ॥ अस्या अधिष्ठातृदेवता वरुणः । यथा, —
“अश्वियमदहनकमलजशशिशूलभृददितिजीव- फणिपितरः । योन्यर्यमदिनकृत्तष्टृपवनशक्राग्निमित्राः ॥ शक्रो निरृतिस्तोयं विश्वविरिञ्ची हरिर्व्वसु- र्व्वरुणः । अजपादोऽहिव्रध्नः पूषा चेतीश्वरा भानाम् ॥” सा तु अधोमुखी । यथा, —
“अश्लेषवह्नियमपित्र्यविशाखयुक्तं पूर्व्वात्रयं शतभिषा च नवाप्युडूनि । एतान्यधोमुखगणानि शिवानि नित्यं विद्यार्घ्यभूमिखननेषु च तूषितानि ॥” इति ज्योतिस्तत्तम् ॥ * ॥
तत्र जातफलम् । “शीतभीतिरतिसाहसी सदा निष्ठुरो हि चतुरो नरो भवेत् । वैरिणामतिशयेन दारुणो वारुणोडु यदि यस्य सम्भवे ॥” इति कोष्ठीप्रदीपः ॥ * ॥
तत्र जातस्य मिश्रगुणाः । यथा । “शतानलादित्यविशाखमैत्र- शक्रोद्भवा मिश्रगुणाः प्रदिष्टाः । शिवाजहस्ताहिभवा जघन्याः शेषोद्भवाः सत्पुरुषा भवन्ति ॥” * ॥
रविवारादौ शतभिषादियोगे ज्वरोत्पत्तिफलं यथा, —
“शिवशतभिषावातो याम्यसर्पस्त्रिपूर्व्वाः शनिरविकुजवारे भूतगोष्ठीनवम्याम् । इह हि मरणयोगे यो हि रोगोपयुक्तः पशुपतिसमदेहः सोऽपि मृत्युं प्रयाति ॥ उत्तरे विंशतिर्ज्ञेया द्बौ मासौ श्रवणे तथा । धनिष्ठायामर्द्धमासं वारुणेन दशाहकम् ॥” इति ज्योतिःसारधृतकौशिकवचनम् ॥