संस्कृत-शब्दकोशः

शतभिषा शतमख

शतभीरु

वाचस्पत्यम्

शतभीरु ||‍ स्त्री शतं बहवो वियोगिनो भीरवो यस्याः ५ त० । मल्लिकायाम् अमरः तद्दर्शने हि बहुवियोगिनां कामोद्दीपनात् ततो भीरुत्वम ।


शब्दकल्पद्रुमः

शतभीरुः || स्त्री मल्लिका । इत्यमरः ॥ शतं बहवो वियोगिनो भीरवोऽस्या इति शतभीरुः । शीत- भीरुरिति च पाठः । तदा ग्रैष्मिकत्वेन शीता- द्विभेतीति शीतभीरुः । इति भरतः ॥



Correction: