संस्कृत-शब्दकोशः

शतभीरु शतमन्यु

शतमख

वाचस्पत्यम्

शतमख ||‍ पु० शतं मखा यज्ञा यस्य । १ इन्द्रे हलायुधः । २ पेचके च ।


शब्दकल्पद्रुमः

शतमखः || पुं, (शतं मखा यज्ञा यस्य ।)
इन्द्रः । इति हलायुधः ॥ (यथा, कुमारे । २ । ६४ । “सहचरमधुहस्तन्यस्तचूताङ्कुरस्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥”)



Correction: