वाचस्पत्यम्
शतमन्यु || पु० शतं मन्यवो यज्ञा यस्य शते दैत्यंषु मन्युः क्रोधो वा यस्य । १ इन्द्रे अमरः । २ पेचके च ।
शब्दकल्पद्रुमः
शतमन्युः || पुं, (शतं मन्यवः क्रतवो यस्य ।)
इन्द्रः । इत्यमरः ॥ (यथा, भागवते । १ । ८ । ६ । “याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥” शतयज्ञकारिणि, त्रि । यथा, बृहत्संहि- तायाम् । ४३ । ५४ । “त्वमन्तकः सर्व्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीड्यः ॥” बहुक्रोधे च त्रि । यथा, ऋग्वेदे । १० । १०३ । ७ । “वीरः शतमन्युरिन्द्रः ।” “शतमन्युः बहुयज्ञः बहुक्रोधो वा ।” इति तद्भाष्ये सायणः ॥)