संस्कृत-शब्दकोशः

शतह्नदा शताङ्ग

शताक्षी

वाचस्पत्यम्

शताक्षी ||‍ स्त्री शतमक्षीणीव पुष्पाण्यस्याः षच् समा० ङीष् । १ रात्रौ २ शतपुष्पायाम् । शब्दच० ३ दुर्गायाञ्च “भूयश्च शतवार्षिक्यामनाबृष्ट्यामनम्भसि । मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा । ततः शतेन नेत्राणां निरी- क्षिप्यामि यन्मुनीन् । कीर्त्तयिष्यन्ति मनुजाः शताक्षी- मिति मां ततः” देबीमाहात्म्ये ।


शब्दकल्पद्रुमः

शताक्षी || स्त्री रात्रिः । शतपुष्पा । इति शब्द- रत्नावली ॥ पार्व्वती । यथा, —
“भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि । मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥ ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् । कीर्त्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्ये देव्या- श्चरितस्तुतिनामाध्यायः ॥



Correction: