वाचस्पत्यम्
शताङ्ग || पु० शतमङ्गान्यवयवायस्य । १ रथे अमरः २ तिनिसवृक्षे च राजनि० ।
शब्दकल्पद्रुमः
शताङ्गः || पुं, (शतं अङ्गानि अवयवा यस्य ।)
रथः । इत्यमरः ॥ तिनिसवृक्षः । इति राज- निर्घण्टः ॥ (दानवविशेषः । यथा, हरिवंशे । २३२ । ६ । “करालो ज्वालजिह्वश्च शताङ्गः शतलोचनः ॥” शतावयवविशिष्टे, त्रि । यथा, महाभारते । १ । १८९ । २२ । “शताङ्गानि च तुर्य्याणि वादकाः समवाद- यन् ॥”)