शब्दकल्पद्रुमः
शत्रुघ्नः || पुं, (शत्रून् हन्तीति । हन् + मूलविभु- जादित्वात् कः । यद्वा, अमनुष्यकर्त्तृकेऽपि चेत्यपि शब्दात् कृतघ्न शत्रुघ्नादयः सिद्धा इति दुर्ग- सिंहः ।)
श्रीरामस्य भ्राता । तत्पर्य्यायः । शत्रुमर्द्दनः २ । इति शब्दरत्नावली ॥ स तु सुमित्रया हुतोच्छिष्टभोजनादसावि । यथा, —
“निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्म्मणि राजपत्न्यः । प्राशुर्हु तोच्छिष्टमुदारवंश्या- स्तिस्रः प्रसोतुं चतुरः सुपुत्त्रान् ॥ कौशल्ययासावि सुखेन रामः प्राक् केकयीतो भरतस्ततोऽभूत् । प्रासोष्ट शत्रुघ्नमुदारचेष्ट- मेका सुमित्रा सह लक्ष्मणेन ॥” इति भट्टिकाव्ये १ सर्गः ॥ (अयं हि मधुपुरनिवासिनो लवणाख्यराक्ष- सस्य निहन्ता । एतद्विवरणं रामायणे उत्तर- काण्डे ७३ अध्यायमारभ्य द्रष्टव्यम् ॥ * ॥
शत्रु- हन्तरि, त्रि । यथा, रामायणे । २ । १ । १ । “गच्छता मातुलकुलं भरतेन तदानघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥”)