शब्दकल्पद्रुमः
शत्रुः || पुं, (शद् शातने + “रुशदिभ्यां क्रुन् ।” उणा० ४ । १०३ । इति क्रुन् ।)
स्वदेशादनन्त- रोऽव्यवहितैकविषयाभिनिवेशिराजः । यथा, —
“विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥” इति, शातकः । निपातकारीत्यर्थः । तत्पर्य्यायः । रिपुः २ वैरिः ३ सपत्नः ४ अरिः ५ द्विशः ६ द्वेषणः ७ दुर्हृद् ८ द्विट् ९ विपक्षः १० अहितः ११ अमित्रः १२ दस्युः १३ शात्रवः १४ अभि- घाती १५ परः १६ अरातिः १७ प्रत्यर्थी १८ परिपन्थी १९ । इति चामरः ॥ वृषः २० प्रति- पक्षः २१ । इति जटाधरः ॥ द्विषन् २२ घातकः २३ द्वेषी २४ विद्विषः २५ हिंसकः २६ विद्विट् २७ अप्रियः २८ अभिघातिः २९ अहितः ३० दौर्हृदः ३१ । इति शब्दरत्ना- वली ॥ तस्य जयोपायो यथा, — मत्स्य उवाच । “सर्व्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् । स्वदत्तेनेह भवति दानेनोभयलोकजित् ॥ न सोऽस्ति राजन् दानेन वशयोगो न जायते । दानेन वशगा देवा भवन्तीह सदा वृणाम् ॥ दानमेवोपजीवन्ति प्रजाः सर्व्वा नृपोत्तम । प्रियो हिदानवान् लोके सर्व्वस्यैवोपजायते ॥ दानवानचिरेणैव तथा राजा परान् जयेत् । दानवानेव शक्नोति संहतान् भेदितुं परान् ॥ यद्यप्यलुब्धा गम्भीराः पुरुषाः सागरोपमाः । न गृह्णन्ति तथाप्येते जायन्ते पक्षपातिनः ॥ अन्यत्रापि कृतं दानं करोत्यन्यं तथा वशे । उपायेभ्यः प्रशंसन्ति दानं श्रेष्ठतमं जनाः ॥ दानं श्रेयस्करं श्रेष्ठं दानं श्रेष्ठकरं परम् । दानवानेव लोकेषु पुत्त्रत्वे ध्रियते सदा ॥ न केवलं दानपरा जयन्ति भूर्लोकमेकं पुरुषाः सुवीराः । जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयं यद्विवुधाधिवासम् ॥” इति मात्स्ये २२४ अध्यायः ॥ * ॥
मत्स्य उवाच । “न शक्या ये वशे कर्त्तुमुपायत्रितयेन तु । दण्डेन तान् वशान् कुर्य्यात् दण्डो हि वश- कृन्नृणाम् ॥ सम्यक् प्रणयनं तस्य तथा कार्य्यं महीक्षिता । धर्म्मशास्त्रानुसारेण सुसहायेन धीमता ॥ तस्य सम्यक्प्रणयनं तथा कार्य्यं महीक्षिता । वानप्रस्थांश्च धर्म्मज्ञान् निर्म्ममान् निष्परि- ग्रहान् । स्वदेशे परदेशे च धर्म्मशास्त्रविशारदान् । समीक्ष्य प्रणयेद्दण्डं सर्व्वं दण्डे प्रतिष्ठितम् ॥ आश्रमी यदि वा वर्णी पूज्यो वाथ गुरुर्महान् । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्म्मे न तिष्ठति ॥ अदण्ड्यान् दण्डयेद्राजा दण्ड्यांश्चैवाप्यदण्ड- यन् । इह राज्यपरिभ्रष्टो नरकं प्रतिपद्यते ॥ तस्माद्राजा विनीतेन धर्म्मशास्त्रानुसारतः । दण्डप्रणयनं कार्य्यं लोकानुग्रहकाम्यया ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ वालवृद्धातुरयतिद्विजस्त्रीविक्लवात्मतः ॥ सर्व्वे बलिष्ठा भक्षेरन् यदि दण्डं न पातयेत् ॥ देवदैत्योरगगणाः सिद्धभूतपतत्रिणः । उपक्रमेयुर्म्मर्य्यादां यदि दण्डं न पातयेत् ॥ एष ब्रह्माभिशापेषु सर्व्वप्रहरणेषु च । सर्व्वविक्रमकोपेषु व्यवसाये च तिष्ठति ॥ पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः । न ब्रह्माणं विधातारं न पूषार्य्यमणावपि ॥ य एते मानवाः केचित् प्रशान्ताः सर्व्वकर्म्मसु । रुद्रमग्निञ्च शक्रञ्च सूर्य्याचन्द्रमसौ तथा । विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च ॥ दण्डः शास्ति प्रजाः सर्व्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्त्ति दण्डं धर्म्मं विदुर्बुधाः ॥ राजदण्डभयादेके पापाः पापं न कुर्व्वते । यमदण्डभयादेके परस्परभयादपि ॥ एवं हि सात्त्विके लोके सर्व्वं दण्डे प्रतिष्ठितम् । अन्धे तमसि मज्जेयुर्यदि दण्डं न पातयेत् ॥ तस्मात् दण्डो दमयति अदण्ड्यं दण्डयत्यपि । दमनाद्दण्डनाच्चैव तस्मात् दण्डं विदुर्ब्बुधाः ॥ दण्डस्य भीतैस्त्रिदशैः समेतै- र्भागो धृतः शूलधरस्य यज्ञे । भवस्य पुत्त्रं ध्वजिनीपतिञ्च वरं शिशूनाञ्च भयात्तु दुस्थम् ॥” इति मात्स्ये १९९ अध्यायः ॥ सामभेदौ तत्तच्छब्दे द्रष्टव्यौ ॥