शब्दकल्पद्रुमः
शत्रुन्तपः || त्रि (शत्रुं तपति तापयति वा । तप + “संज्ञायां भृतॄवृजीति ।” ३ । २ । ४६ । इति खच् । ततो मुम् ।)
वैरितापकृत् । इति मुग्धबोधव्याकरणम् ॥ (यथा, महाभारते । ४ । ५२ । ११ । “शत्रुन्तपः कोपममृष्यमाणः समर्द्दयत् कूर्म्मनखेन पार्थम् ॥”)