शब्दकल्पद्रुमः
शत्रुमर्द्दनः || पुं, (शत्रुं मृद्नातीति । मृद् + ल्युः ।) शत्रुघ्नः । इति शब्दरत्नावली ॥ (शत्रुहन्तरि, त्रि । यथा, कथासरित्सागरे । ४२ । १२५ । “अध्यास्ते यमदंष्ट्राख्यः स्वामी नः शत्रुमर्द्दनः ॥”)